________________
प्रमाणप्रमेयकलिका
[१. ६ १०.
भिन्नस्य करणे तेषां न किंचिदपि कृतं स्यात् । घटस्य करणे पटस्य किमायातम् । नाप्यभिन्नः, अभेदे तान्येव कृतानि भवेयुः, कथं नाम तेषां नित्यता स्यात् । ततश्च तत्कार्यमपि साकल्यं न प्रमाणतामियात् ।
६११. नापि पदार्थान्तरम्, सर्वेषामपि पदार्थान्तराणां साकल्यप्रसंगात् । तथा च सर्वत्र सर्वदा सर्वस्य सर्वार्थोपलब्धिप्रसंगेन सर्वदा पदार्थान्तरसाकल्यं स्यात् । कारकाणां हि साकल्यं कारकसाकल्यं, तच्च पदार्थान्तरम् सर्वेषामपि पदार्थान्तर[राणां]साकल्ये कथं नाम कारकसाकल्यं भवितुमर्हति । पदार्थान्तरसाकल्यमित्येवं स्यात् , कारकसाकल्यमित्येतदुन्मत्तभाषितमेव स्यात्।
६ १२. किं च, कारकेभ्यः पदार्थान्तरं साकल्यम्, तत्किं ज्ञानमन्यद्वा । आद्य, ज्ञानमेव प्रमाणं नामान्तरेणोक्तं स्यात् । अन्यचेत्, तत्प्रागेवातिप्रसंगेन निरस्तं बोद्धव्यम् । तन्न कारकसाकल्यं प्रमाणम्, तस्य स्वरूपेणैवासिद्धत्वात् , सिद्धौ वा, ज्ञानेन व्यवहितत्वाच्च न प्रमाणमिति ।।
१. 'नापि पदार्थान्तरम, सर्वस्य पदार्थान्तरस्य साकल्यरूपताप्रसङ्गात्, तथा च तत्सद्भावे सर्वत्र सर्वदा सर्वस्यार्थोपलब्धिरिति सर्वः सर्वदर्शी स्यात् । ततः कारकसाकल्यस्य स्वरूपेणासिद्धः, सिद्धी वा ज्ञानेन व्यवधानान्न प्रामाण्यम् ।'-प्रमेयक० पृ० १३ ।।
+ अस्येदं तात्पर्यम्-कारकसाकल्यस्याबोधस्वभावस्याज्ञानरूपत्वेन स्वपरज्ञानकरणे साधकतमत्वाभावान्न प्रमाणत्वम् । अतिशयेन साधकं साधकतमम्, साधकतमं च करणम् । करणं खल्वसाधारण कारणमच्यते । तथा च सकलानां कारकाणां सावारणासाधरणस्वभावानां साकल्यस्यपरिसमाप्त्या सर्वत्र वर्तमानस्य सामस्त्यस्य-कथं साधकतमत्वमिति विचारणीयम् । साधकतमत्वाभावे च न तस्य प्रमाणत्वम्, स्वपरपरिच्छित्तौ साधकतमस्यैव प्रमाणत्वघटनात् इति ।
1.' कृतः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org