________________
-१.६ १३]
संनिकर्ष-परीक्षा [ यौगाभिमतस्य संनिकर्षस्य प्रामाण्यनिरासः-] ६ १३. नापि संनिकर्षः प्रमाणम्, तस्याप्यव्यभिचारादिविशे
१. तुलना—'तत्र हि संनिकर्ष एवार्थोपलब्धौ साधकतमत्वात्प्रमाणम् । साधकतमत्वं हि प्रमाणत्वेन - व्याप्तं न पुनर्ज्ञानत्वमज्ञानत्वं, संशयादिवत्, प्रमेयार्थवच्च । तच्चार्थोपलब्धौ संनिकर्षस्यास्त्येव । न ह्यसंनिकृष्टऽर्थे ज्ञानमुत्पत्तुमर्हति, सर्वस्य सर्वत्रार्थे तदुत्पत्तिप्रसंगात् ।'-न्यायकु० पृ. २८। 'उपलब्धिहेतुः प्रमाणम्""" यदुपलब्धिनिमित्तं तत्प्रमाणंम् ।""अकरणा प्रमाणोत्पत्तिरिति चेत्, "न, इन्द्रियार्थसन्निकर्षस्य करणभावात्""साधकतमत्वाद्वा न प्रसंगः ।'न्यायवा० पृ. ५-६ । 'ननु संनिकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति ब्रूमः। यदि हि असंनिकृष्टमपि चक्षुरादीन्द्रियमर्थं गृह्णीयाद् व्यवहितो ततोऽर्थ उपलभ्येत ।"इन्द्रियाणां कारकत्वेन प्राप्यकरित्वात् । संसृष्टं च कारकं फलाय कल्पते इति कल्पनीयः संसर्ग: ।""कारकं च अप्राप्यकारि च इति चित्रम् ।'-न्यायमं० पृ० ७३ तथा ४७९ । अत्र जैनानामुत्तरपक्ष:-'तस्यार्थप्रमितो साधकतमत्वासंभवात् । यद्भावे हि प्रमितेर्भाववत्ता यदभावे चाभाववत्ता तत्तत्र साधकतमम् । 'भावाभावयोस्तद्वत्ता साधकतमत्वम् ।' इत्यभिधानात् । न चैतत् संनिकर्षे संभवति तस्मिन् सत्यपि क्वचित्प्रमित्यनुपपत्तेः। आकाशादिना हि घटवत् चक्षुषः संयोगो विद्यते; न चासो तत्र प्रमितिमुत्पादयति ।'-न्यायकु० पृ० २८ । प्रमेयक० प० १४ । 'संनिकर्षस्य च योगाभ्युपगतस्याचेतनत्वात्कुतः प्रमितिकरणत्वम् ? कुतस्तरां प्रमाणत्वम् ? कुतस्तमा प्रत्यक्षत्वम् ? कि च, रूप्रमितेरसंनिकृष्टमेव चक्षुर्जनकम्, अप्राप्यकारित्वात्तस्य । ततः संनिकर्षाभावेऽपि साक्षात्कारिप्रमोत्पत्तेर्न संनिकर्षरूपतैव प्रत्यक्षस्य ।'-न्या० दो० पृ० २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org