________________
[ ?. § ? 3−
षणविशिष्टार्थप्रमितावसाधकतमत्वात् ।
अर्थप्रमितावसाधक
तमत्वं च स्वप्रमितावसाधकतमत्वेन सिद्धम् । तथा हि-न संनिकर्षोऽर्थप्रमितौ साधकतमः,
स्वप्रमितावसाधकतमत्वात्,
घटवत् । न ह्यचेतनोऽर्थः स्वप्रमितौ करणम्, तद्वत् । तस्मान्न संनिकर्षः प्रमाणमन्यत्रोपचारात्, प्रदीपादिवत् । यथा प्रदीपादीनां करणत्वमुपचारात् तथा संनिकर्षस्यापि ।
§ १४. किं च, अव्याप्त्यतिव्याप्तिदोषसंभवेन 'संनिकर्षः प्रमाणम्' इति लक्षणं नाक्षूणमुपलभ्यते परीक्षादक्षैः । तथा हियथा चक्षुषा संयुक्ते घटे संयोगाद् घटज्ञानम्, संयुक्तसमवायाद् रूपज्ञानम्, संयुक्तसमवेतसमवायाद् रूपत्वज्ञानम् [इति ], संयोगसंयुक्तसमवाय- संयुक्तसमवेतसमवाय संबन्धत्रयवशाद् " घट-रूपरूपत्व-ज्ञानमुररीक्रियते भवता तथा घट-रस-रसत्व - ज्ञानमप्युररीक्रियताम्, संबन्धत्रयस्य तत्रापि सत्वात्, इत्यव्याप्तिः । संनिकर्षस्याज्ञानरूपस्य प्रामाण्ये घटादिप्रमेयार्थस्यापि प्रामाण्यप्रसंग इत्यतिव्याप्तिः । तथा चाव्याप्त्यतिव्याप्तिदोषाभ्यां संनिकर्षस्य प्रमाणत्वासंभवेनासंभवदोषद्रुष्टत्वेन च तस्य प्रामाण्यं मन्यमानो न निर्मलमना मनीषिभिरनुमन्यते । ततः कथं संनिकर्षः प्रमाणं नाम । अथ साक्षादर्थप्रमितौ साधकतमस्य ज्ञानस्योत्पादकत्वेन संनिकर्षः प्रमाणम्, तह्युपचारात्प्रामाण्यमित्यायातं तस्य । मुख्यतस्तु ज्ञानस्यैव प्रामाण्यम्, तच भवतामनभ्युपगमादेव न प्रमाणतां याति । परमतप्रसंगश्च ।
§ १५. किं च, ज्ञानस्य प्रामाण्ये संनिकर्षस्य निष्फलत्वादप्रामाण्यम्, प्रमाणेन फलवता भवितव्यम्, निष्फलस्याप्रमाणत्वात् । ततो न संनिकर्षः प्रमाणम्, ज्ञानेन व्यवहितत्वात् ।
१६
प्रमाणप्रमेयकलिका
Jain Education International
-
1. 'प्रदीपानां ' पाठः । 2. 'घटरूपत्वज्ञान' पाठः । 3. 'स्याप्रमाणात्वा' पाठः ।
3
For Private & Personal Use Only
www.jainelibrary.org