________________
- १. १६]
- सिद्धिः
[पराभिमतं ज्ञातृव्यापारादिकं प्रमाणस्वरूपं समालोच्याधुना स्वमतेन 'स्वार्थ व्यवसायात्मकज्ञानस्यैव निरूपयति-]
प्रमाणत्वम्'
इति
$ १६. साक्षादर्थप्रमितौ ज्ञानमेव' प्रमाणम्, तस्यैव साधकतमत्वात् । तदपि स्वार्थव्यवसायात्मकमेव । तथा च प्रयोगःप्रमाणं स्वार्थ व्यवसायात्मकं सम्यग्ज्ञानमेव, प्रमाणत्वाऽन्यथाऽनुपपत्तेः । यत्तु न सम्यग्ज्ञानं स्वार्थव्यवसायात्मकं तन्न प्रमाणम्, यथा संशयादिर्घटादिश्च प्रमाणं [च] विवादापन्नम्, तस्मात्स्वार्थव्यवसायात्मकं ज्ञानमेव [ प्रमाणं ] भवितुमर्हति ।
,
ज्ञान-प्रामाण्य-1
Jain Education International
१. अत्र ज्ञानस्यैव प्रामाण्यमित्यभ्युपगच्छतां जैनानां क्रमविकसितानि प्रमाणलक्षणानि निम्नप्रकारेण दृष्टव्यानि - 'तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् ।'– प्राप्तमी० का० १०१ । 'स्वपरावभासकं यथा प्रमाणं भुवि बुद्धिलक्षणम् |' - स्वयम्भू० का० ६३ । 'प्रमिणोति प्रमीयतेऽनेन प्रमिति - मात्रं वा प्रमाणम्' - सर्वार्थसि० पृ० ५८ । तत्त्वार्थवा० पृ० ३५ ।। 'व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतम् ।' -लघीय० का० ६० । 'सिद्ध यन्न परापेक्षं सिद्धौ स्वपररूपयोः । तत्प्रमाणं ततो नान्यदविकल्पमचेतनम् ।' सि० वि० १-२३ । 'प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात् । ' प्रष्टज्ञ० अष्टस० पृ० १७५ । ' तत्स्वार्थव्यवसायात्म ज्ञानं मानम् ।' त० श्लो० वा० पृ० १७४ | 'सम्यग्ज्ञानं प्रमाणम् । - प्रमाणप० पृ० ५१ । 'किं पुनः सम्यग्ज्ञानं ? अभिधीयते -- स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात् ।'–प्रमाणप० पृ० ५३ | 'स्वापूर्वार्थ व्यवसायात्मकं ज्ञानं प्रमाणम् । परी० मु० १-१ । 'गेहइ वत्थुसहावं अविरुद्धं सम्मरूव जं गाणं । भणियं खु तं पमाणं पच्चक्खपरोक्खभेयेहिं ॥ ' -- नयचक्रसं ० पृ० ६५ । आलापपद्धति पृ० १४५ | 'सम्यग्ज्ञानं पुनः स्वार्थव्यवसायात्मकं विदुः । - तत्वार्थसार १- १७ । पञ्चाध्या० श्लो० ६६६ । 'प्रमाणं
२
१७
For Private & Personal Use Only
www.jainelibrary.org