Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 112
________________ -१.६४] इन्द्रियवृत्ति-परीक्षा [सांख्याभिमताया इन्द्रियवृत्तः प्रामाण्यनिरास:-] ६४. नापीन्द्रियवृत्तिः प्रमाणम् , अर्थप्रमितौ साधकतमत्वायोगात् । तदयोगस्त्वचेतनत्वात् । न ह्यचेतनोऽर्थः1 करणम्, १. तुलना-'एतेनेन्द्रियवृत्तिःप्रमाणमित्यभिदधानः सांख्यः प्रत्याख्यातः। ज्ञानस्वभावमुख्यप्रमाणकरणत्वात् तत्रोपचारतः प्रमाणव्यवहाराभ्युपगमात् ।' -~-प्रमेयक०पृ० १९ । 'इन्द्रियवृत्तेः अर्थप्रमितौ साधकतमत्वेन प्रामाण्योपपत्तेः। इन्द्रियाणां हि वृत्तिः विषयाकारपरिणतिः। न खलु तेषां प्रतिनियतशब्दाद्याकारपरिणतिव्यतिरेकेण प्रतिनियतशब्दाद्यालोचनं घटते । अतो विषयसम्पर्कात् प्रथममिन्द्रियाणां ताद्रूप्यापत्तिः इन्द्रियवृत्तिः, तदनु विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः । अथ कस्मान्मनोवृत्तिः अक्षवृत्त्यालम्बना न शब्दाद्यालम्बना ? इति चेत्; अबहिर्वृत्तित्वात्, अन्यथा बाह्येन्द्रियकल्पनानर्थक्यं स्यात्, इत्यभिदधानः सांख्योऽप्यतेनैव प्रत्याख्यातः । अचेतनस्वभावाया इन्द्रियवृत्तेरप्युपचारादन्यतोऽर्थप्रमितो साधकतमत्वानुपपत्तेः ।'-न्यायकु० पृ. ४० । 'रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः।-सांख्यका० २८ । 'बुद्धिरहङ्कारो मनः चक्षुः इत्येतानि चत्वारि युगपद् रूपं पश्यन्ति, अयं स्थाणुः अयं पुरुषः इति"एवमेषां युगपच्चतुष्टयस्य वृत्तिः"क्रमशश्च-एवं बुद्धि-अहङ्कार-मनश्चक्षुषां क्रमशो वृत्तिदृष्टा, चक्षू रूपं पश्यति, मनः संकल्पयति, अहङ्कारोऽभिमानयति बुद्धिरध्यवस्यति।'-माठरवृ० पृ. ४७ । 'इन्द्रियप्रणालिकया अर्थसन्निकर्षण लिङ्गज्ञानादिना वा आदी बुद्धेः अर्थाकारा वृत्तिः जायते ।'-सां० प्र० भा० पृ० ४७ । 'इन्द्रियप्रणालिकया चित्तस्य बाह्य वस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् ।'-योगद. व्यासभा० पृ. २७ । 'प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ।'-योगवा० पू० ३० । 1. 'अचेतनोऽर्थकरणं' पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160