Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 120
________________ -१.६ १३] संनिकर्ष-परीक्षा [ यौगाभिमतस्य संनिकर्षस्य प्रामाण्यनिरासः-] ६ १३. नापि संनिकर्षः प्रमाणम्, तस्याप्यव्यभिचारादिविशे १. तुलना—'तत्र हि संनिकर्ष एवार्थोपलब्धौ साधकतमत्वात्प्रमाणम् । साधकतमत्वं हि प्रमाणत्वेन - व्याप्तं न पुनर्ज्ञानत्वमज्ञानत्वं, संशयादिवत्, प्रमेयार्थवच्च । तच्चार्थोपलब्धौ संनिकर्षस्यास्त्येव । न ह्यसंनिकृष्टऽर्थे ज्ञानमुत्पत्तुमर्हति, सर्वस्य सर्वत्रार्थे तदुत्पत्तिप्रसंगात् ।'-न्यायकु० पृ. २८। 'उपलब्धिहेतुः प्रमाणम्""" यदुपलब्धिनिमित्तं तत्प्रमाणंम् ।""अकरणा प्रमाणोत्पत्तिरिति चेत्, "न, इन्द्रियार्थसन्निकर्षस्य करणभावात्""साधकतमत्वाद्वा न प्रसंगः ।'न्यायवा० पृ. ५-६ । 'ननु संनिकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति ब्रूमः। यदि हि असंनिकृष्टमपि चक्षुरादीन्द्रियमर्थं गृह्णीयाद् व्यवहितो ततोऽर्थ उपलभ्येत ।"इन्द्रियाणां कारकत्वेन प्राप्यकरित्वात् । संसृष्टं च कारकं फलाय कल्पते इति कल्पनीयः संसर्ग: ।""कारकं च अप्राप्यकारि च इति चित्रम् ।'-न्यायमं० पृ० ७३ तथा ४७९ । अत्र जैनानामुत्तरपक्ष:-'तस्यार्थप्रमितो साधकतमत्वासंभवात् । यद्भावे हि प्रमितेर्भाववत्ता यदभावे चाभाववत्ता तत्तत्र साधकतमम् । 'भावाभावयोस्तद्वत्ता साधकतमत्वम् ।' इत्यभिधानात् । न चैतत् संनिकर्षे संभवति तस्मिन् सत्यपि क्वचित्प्रमित्यनुपपत्तेः। आकाशादिना हि घटवत् चक्षुषः संयोगो विद्यते; न चासो तत्र प्रमितिमुत्पादयति ।'-न्यायकु० पृ० २८ । प्रमेयक० प० १४ । 'संनिकर्षस्य च योगाभ्युपगतस्याचेतनत्वात्कुतः प्रमितिकरणत्वम् ? कुतस्तरां प्रमाणत्वम् ? कुतस्तमा प्रत्यक्षत्वम् ? कि च, रूप्रमितेरसंनिकृष्टमेव चक्षुर्जनकम्, अप्राप्यकारित्वात्तस्य । ततः संनिकर्षाभावेऽपि साक्षात्कारिप्रमोत्पत्तेर्न संनिकर्षरूपतैव प्रत्यक्षस्य ।'-न्या० दो० पृ० २६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160