Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 128
________________ - १. ६२३] ज्ञानस्य स्वव्यवसायात्मकत्व - सिद्धिः २३ कर्त्ता, येन परिच्छिद्यते तत्करणमिति कर्तृ-कर्म-करणानां परस्परभेदः, भिन्नप्रत्ययविषयत्वात्, भिन्नार्थक्रियाकारित्वात्, भिन्नकारणप्रभवत्वाच्च, घटपटादिवत् । येषां भिन्नप्रत्ययविषयत्वं ते भिन्ना एव, यथा घट-पटादयः, तथा चामी, तस्मात्तथेति । ततश्च न स्वव्यवसायात्मकम्, स्वात्मनि क्रियाविरोधात् । ९२२. तत्तमो विलसितम्, तथा हि- सम्यग्ज्ञानं स्वव्यवसायात्मकम्, अर्थव्यवसायात्मकत्वात्, यत्तु न स्वव्यवसायात्मकं तन्नार्थ व्यवसायात्मकम् यथा घटपटादि, अर्थव्यवसायात्मकं च ज्ञानम्, तस्मात्स्वव्यवसायात्मकमिति । 1 [ स्वात्मनि क्रियाविरोधं परिहरति - ] २३. यत्र स्वात्मनि क्रियाविरोधो बाधक इत्युक्तम्, तदपि न पटिष्ठम्, स्वात्मनि क्रिया विरुद्धयते - किं धात्वर्थलक्षणा, उत्पत्तिलक्षणा, ज्ञप्तिलक्षणा वा । न तावद्धात्वर्थलक्षणा तत्र विरुद्धयते, तत्र तस्या' अविरोधात् । क्रियाया (धात्वर्थलक्षणायाः) द्विष्ठत्वात् । एका धात्वर्थलक्षणा क्रिया कर्तृस्था | अन्या च कर्मस्था । १. परीक्षामुखकृताऽपि युक्ति - दृष्टान्तपुरस्सरं ज्ञानस्य स्वव्यवसायात्मकत्वं प्रसाधितम् । तदित्थम् - 'स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः', अर्थस्येव तदुन्मुखतया', 'घटमहमात्मना वेद्मि', 'कर्मवत्कर्तृ करणक्रियाप्रतीतेः', 'शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत्', 'को वा तत्प्रतिभासिनमर्थमध्यक्ष मिच्छंस्तदेव तथा नेच्छेत्', 'प्रदीपवत्' – परीक्षामु० १–६, ७, ८, ९, १०, ११, १२ । 1. द प्रतौ 'वा' पाठो नास्ति । 2. ' तस्या विरोधात् पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160