________________
- १. ६२३]
ज्ञानस्य स्वव्यवसायात्मकत्व - सिद्धिः
२३
कर्त्ता, येन परिच्छिद्यते तत्करणमिति कर्तृ-कर्म-करणानां परस्परभेदः, भिन्नप्रत्ययविषयत्वात्, भिन्नार्थक्रियाकारित्वात्, भिन्नकारणप्रभवत्वाच्च, घटपटादिवत् । येषां भिन्नप्रत्ययविषयत्वं ते भिन्ना एव, यथा घट-पटादयः, तथा चामी, तस्मात्तथेति । ततश्च न स्वव्यवसायात्मकम्, स्वात्मनि क्रियाविरोधात् ।
९२२. तत्तमो विलसितम्, तथा हि- सम्यग्ज्ञानं स्वव्यवसायात्मकम्, अर्थव्यवसायात्मकत्वात्, यत्तु न स्वव्यवसायात्मकं तन्नार्थ व्यवसायात्मकम् यथा घटपटादि, अर्थव्यवसायात्मकं च ज्ञानम्, तस्मात्स्वव्यवसायात्मकमिति ।
1
[ स्वात्मनि क्रियाविरोधं परिहरति - ]
२३. यत्र स्वात्मनि क्रियाविरोधो बाधक इत्युक्तम्, तदपि न पटिष्ठम्, स्वात्मनि क्रिया विरुद्धयते - किं धात्वर्थलक्षणा, उत्पत्तिलक्षणा, ज्ञप्तिलक्षणा वा । न तावद्धात्वर्थलक्षणा तत्र विरुद्धयते, तत्र तस्या' अविरोधात् । क्रियाया (धात्वर्थलक्षणायाः) द्विष्ठत्वात् । एका धात्वर्थलक्षणा क्रिया कर्तृस्था | अन्या च कर्मस्था ।
१. परीक्षामुखकृताऽपि युक्ति - दृष्टान्तपुरस्सरं ज्ञानस्य स्वव्यवसायात्मकत्वं प्रसाधितम् । तदित्थम् - 'स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः', अर्थस्येव तदुन्मुखतया', 'घटमहमात्मना वेद्मि', 'कर्मवत्कर्तृ करणक्रियाप्रतीतेः', 'शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत्', 'को वा तत्प्रतिभासिनमर्थमध्यक्ष मिच्छंस्तदेव तथा नेच्छेत्', 'प्रदीपवत्' – परीक्षामु० १–६, ७, ८, ९, १०, ११, १२ ।
1. द प्रतौ 'वा' पाठो नास्ति । 2. ' तस्या विरोधात् पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org