________________
२२
प्रमाणप्रमेयकलिका
[१.६ २०प्रत्यक्षस्याव्यवसायात्मकत्वेऽविसंवादित्वासंभवात् । अविसंवादो ह्यर्थतथाभावप्रकाशकत्वेनैव व्याप्तः । तच्च व्यवसायात्मकत्वे सत्येव भवति । तदभावेऽपि चेदर्थतथाभावप्रकाशकत्वलक्षणं प्रामाण्यं प्रमाणस्यापनीपद्यते तदा संशयादीनामपि प्रामाण्यं सिद्धिसौधशिखरं समारुह्यते ।ततो न किंचिदेतत् । प्रत्यक्षमनुमानं वा व्यवसायात्मकं सत् प्रमाणं भवितुमर्हति । अत्र प्रयोगःज्ञानं प्रमाणं स्वार्थव्यवसायात्मकमेव, समारोपविरुद्धत्वात्, अनुमानवत् , यत्त न स्वार्थव्यवसायात्मकं तन्न समारोपविरुद्धम् , यथा संशयादिः, समारोपविरुद्धं चेदम् , तस्मात्स्वार्थव्यवसायात्मकमेव ।
[प्रमाणलक्षणत्वेन लक्षितस्य ज्ञानस्य स्वव्यवसायात्मकत्वसाधनम्-]
२१. अत्रान्ये योग-मीमांसक-सांख्या वदन्ति । अस्तु नाम व्यवसायात्मकं ज्ञानं प्रमाणम् , परं तत् अर्थव्यवसायात्मकमेव न च स्वव्यवसायात्मकम् , स्वात्मनि क्रियाविरोधात् । न हि सुशिक्षितोऽपि नटवटुः स्वकायस्कन्धमारोहति । न हि सुतीक्ष्णोऽपि खगधारः स्वात्मानं छिनन्ति । तथा हि-ज्ञानं न स्वव्यवसात्मकम् , ज्ञ कर्मत्वेनाप्रतीयमानात्, यद्वयवसीयते तत्कर्मत्वेन प्रतीयते, यथा घटादिः, कर्मत्वेनाप्रतीयमानं च ज्ञानम, तस्मान्न स्वव्यवसायात्मकम् । न चायमसिद्धो हेतुः । प्रमाणं कर्मत्वेनाप्रतीयमानम्, करणत्वात् । न हि यदेव करणं तदेव कर्भ भवितुमर्हति । तयोः कर्मकरणयोः परस्परं विरोधात् । कर्म-करणकारकयोरेकत्राभिन्ने वस्तुन्यसंभवात् । घटादिपरिच्छेद्यं हि कर्म, परिच्छेदकस्तु
1. द आ 'त्मकमेव सर्वज्ञात्वे' पाठः। 2. 'ज्ञाकर्मत्वेनाप्र०' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org