________________
-१. ६ २०] ज्ञान-प्रामाण्य-सिद्धिः
२१ तदपि स्वार्थव्यवसायात्मकविशेषणविशिष्टमेव, न तु ज्ञानमात्रं किंचिदव्यवसायात्मकं वा, मिथ्याज्ञानस्यापि प्रामाण्यप्रसंगात् ।।
२०. अथ स्वसंवेदनेन्द्रिय-मनो-योगिलक्षणेचतुर्विधस्यापि समक्षस्याव्यवसायात्मकत्वेऽप्यविसंवादेन प्रामाण्योपपत्तेः कथं व्यवसायात्मकमेव सर्वं ज्ञानं प्रमाणम्, अनुमानस्यैव व्यवसायात्मकत्वेनाभ्युपगमात् , इति मतम् , तदप्यज्ञानविजृम्भितम् ,
धारिणो दृष्टाः, नामूर्त मूर्तप्रतिबिम्बभृत्, अमूर्तं च ज्ञानम्, मूर्तिधर्माभावात् । न हि ज्ञाने अर्थोऽस्ति तदात्मको वा, येन तस्मिन् प्रतिभासमाने प्रतिभासेत, शब्दवत् । ततः तदध्यवसायो न स्यात् । कथमेतदविद्यमानं त्रितयं ज्ञानप्रामाण्यं प्रति उपकारकं स्यात् लक्षणत्वेन ।' ननु ज्ञानस्य तदुत्पत्तित्रितयासंभवे कथमर्थग्राहकत्वमतिप्रसंगादित्यत्रापि समाधानमाहुः--'स्वहेतुजनितोऽप्यर्थः परिच्छेद्यः स्वतो यथा । तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वतः ॥५६॥ अर्थज्ञानयोः स्वकारणादात्मलाभमासादयतोरेव परिच्छेद्यपरिच्छेदकभावः नालब्धात्मनोः कर्तृ कर्मस्वभाववत् । ततः तदुत्पत्तिमन्तरेणापि ग्राह्यग्राहकभावसिद्धिः स्वभावतः स्यात्, अन्यथा व्यवस्थाभावप्रसंगात् ।'--- सविवृति-लघीयस्त्रय-प्रवचनपरि० का० ५७, ५८, ५९ । 'नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत्,' 'अन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवन्नक्तंचरज्ञानवच्च । --परीक्षामु० २-६,७ ।
१. तदेतच्चतुर्विध प्रत्यक्षं बौद्धविदुषा धर्मकीर्तिना न्यायबिन्दावित्थं प्रतिपादितम्--'कल्पनापोढमभ्रान्तं प्रत्यक्षम्' । 'तच्चतुर्विधम् ।' 'इन्द्रियज्ञानम् ।' 'स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ।' 'सर्वचित्तचैत्तानामात्मसंवेदनम् ।' 'भूतार्थभावानाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ।'--न्या०बि० पृ० १२, १३, १४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org