________________
[?. § ?ε
-
-कल्प
त्वात् ताद्रूप्यसहिताया एव तस्यास्तं प्रति नियमहेतुत्वात् । - - प्रमेयर ० २–१; पृ० ४७ । तन्न युक्तम् - - ' अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् । ' परीक्षामु० २-८ । 'ननु यद्यर्थादजातस्यार्थ रूपाननुकारिणो ज्ञानस्यार्थसाक्षात्कारित्वं तदा नियतदिग्देशकालवर्तिपदार्थप्रकाश प्रतिनियमे हेतोरभावात्सर्वं विज्ञानमप्रतिनियतविषयं स्यात् ।' अत्र समाधानमाहुः - - स्वावरणेत्यादि । अस्यायमर्थः - - 'स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावः । तेषामेव सदवस्था उपशमः तावेव लक्षणं यस्या योग्यतायास्तया हेतुभूतया प्रतिनियतमर्थं व्यवस्थापयति प्रत्यक्षमिति शेषः । हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः । इदमत्र तात्पर्यम्, - यित्वाऽपि ताद्रूप्यं तदुत्पत्ति तदध्यवसायं च योग्यताऽवश्याऽभ्युपगन्तव्या । ताद्रूप्यस्य समानार्थैस्तदुत्पत्तेरिन्द्रियादिभिस्तद्द्द्वयस्यापि समानार्थ- समनन्तरप्रत्ययैस्तत्त्रितयस्यापि शुक्ले शंखे पीताकारज्ञानेन व्यभिचारात् योग्यताश्रयणमेव श्रेय इति ।' - प्रमेयरत्नमा० २-६ । पृ० ४९, ५० प्रकलङ्कदेवा अपि प्राहु:--' मलविद्धमणिव्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥५७॥ यथास्वं कर्मक्षयोपशमापेक्षिणी करणमनसी निमित्तं विज्ञानस्य, न बहिरर्थादयः । "नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः " इति बालिशगीतम्, तामसखगकुलानां तमसि सति रूपदर्शनम्, आवरणविच्छेदात्, तदविच्छेदात् आलोके सत्यपि संशयादिज्ञानसंभवात् । काचाद्युपहतेन्द्रियाणां शंखादौ पीताद्याकारज्ञानोत्पत्तेः । मुमूर्षणां यथासंभवमर्थे सत्यपि विपरीतप्रतिपत्तिसद्भावात् नार्थादयः कारणं ज्ञानस्य इति स्थितम् ।' अन्यच्च -- ' न तज्जन्म न ताद्रूप्यं न तद्व्यवसितिः सह । प्रत्येकं वा भजन्तीह प्रामाण्यं प्रति हेतुताम् ||५८ || नार्थः कारणं विज्ञानस्य कार्यकालमप्राप्य निवृत्तेः, अतीततमवत् । न ज्ञानं तत्कार्यम्, तदभाव एव भावात्, तद्भावे चाभावात्, भविष्यत्तमवत् । नार्थसारूप्यभृत् विज्ञानम्, अमूर्त्तत्वात् । मूर्त्ता एव हि दर्पणादयो मूर्त्तमुखादिप्रतिबिम्ब
२०
Jain Education International
प्रमाणप्रमेयकलिका
For Private & Personal Use Only
--
•
www.jainelibrary.org