________________
-१.६१६]
ज्ञान-प्रामाण्य-सिद्धिः स्वरूपं ग्वाऽऽविद्वदङ्गना-प्रसिद्ध कथं हन्त हन्तु शक्यते । अन्यदुच्यते-यदर्थज्ञानं तन्नार्थजन्यमभ्युपगम्यते किन्तु स्वसामग्रीत उत्पद्य अर्थग्राहकत्वेनार्थज्ञानमित्यभिधीयते । तथा च सति ज्ञानं प्रमाणम्, अर्थपरिच्छित्तिस्तु फलं [ तत् ] कथं निष्फलं नाम ।
१६. अथेदमुच्यते-यद्यर्थज्ञानमर्थजन्यं न भवति तदा कथं प्रतिनियतार्थप्रकाशकत्वम्, तदपि न धीमद्धतिकरम्, तस्य योग्यतावशादेव तथासिद्धत्वात् । तथा चोक्तम्- “स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति" [परीक्षा २-६] । ततः सम्यग्ज्ञानं प्रमाणमिति प्रमाणत्वस्य तस्यैवोपपत्तेः ।
अष्टस०पू० २८३ । 'प्रमाणस्य फलं साक्षात् सिद्धिः स्वार्थविनिश्चयः।सिद्धिवि० १-३ । 'अज्ञाननिवृत्तिः हानोपादानोपेक्षाश्च फलम्।'-परीक्षामु० ५-१। 'यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् !'-वात्स्या० भा० पृ० १७ । 'प्रमाणतायां सामग्र्यास्तज्ज्ञानं फलमिष्यते । तस्य प्रमाणभावे तु फलं हानादिबुद्धयः ॥'-न्या० मं० पृ० ६२ । 'विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । स्ववित्तिा प्रमाणं तु सारूप्यं योग्यताऽपि वा ॥'-तत्त्वसं० श्लो० १३४४ । * एतादृशप्रयोगोऽन्यत्रापि दृश्यते । यथां
आविद्वदङ्गना-सिद्धमिदानीमपि दृश्यते । एतत्प्रायस्तदन्यत्तु सुबह्वागम-भाषितम् ॥
-योगदृष्टिसमु०, श्लोक ५५ । १. तुलना-'ननु विज्ञानमर्थजनितमर्थाकारं चार्थस्य ग्राहकम् । तदुत्पत्तिमन्तरेण विषयं प्रति नियमायोगात् । तदुत्पत्तेरालोकादावविशिष्ट
1. 'नाविद्धमंगना' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org