SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ २४ प्रमारपप्रमेयकलिका [१.६२३तदुक्तम्कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया। समासिभावः कर्तृ स्थः कर्तृस्था च गमेः क्रिया ॥१॥[ ] २४. या चोत्पत्तिलक्षणा स्वात्मनि विरुद्धयते सा विरुद्धयताम् , तद्विरोधस्याङ्गीकरणात्' । यदुक्तम् अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुद्धयते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते ॥ [आप्तमी० का०२४] ६२५. अथ ज्ञाप्तिलक्षणा क्रिया, न सा विरुद्धयते, कथंचित्कतरभिन्नस्य करणस्य विद्यमानत्वात् । तथा हि-आत्मा कर्ता स्वसंवेद्यो भवता [ स्वीकृतः ], तत्र कथं कर्मत्वं न विरुद्धथते ? अथाऽऽत्मा कर्तृत्वेन प्रतीयमानो न विरुद्धयते, स्वप्रकाशरूपत्वात् , प्रदीपवत्, तर्हि तद्धर्मो ज्ञानमपि करणत्वेन प्रतीयमानं कथं विरोधमहति, प्रदीपभासुराकारवत् । तस्मान्न कतृ -करणक्रियाणां कथंचित्परस्परभिन्नानां स्वप्रकाशरूपाणां स्वार्थप्रकाशकत्वमाविद्वदङ्गनाप्रसिद्धतया प्रतीयमानं विरोधतामाचनीस्कन्द्यते । तस्मात् 'स्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्' इति प्रमाणस्य लक्षणं सिद्धम् । इति प्रमाणतत्व-परीक्षा। १. न हि वयं स्वस्मादेव स्वस्योत्पत्तिरभ्युपगम्यते इति भावः । 1. 'मासासिभावः' पाठः । 2. "वि या' पाठः । 3. 'कर्म' पाठः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001146
Book TitlePramanprameykalika
Original Sutra AuthorNarendrasen Maharaj
AuthorDarbarilal Kothiya
PublisherBharatiya Gyanpith
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy