Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 130
________________ -२. ६ २७] सामान्य-परीक्षा [ २. प्रमेयतत्व-परीक्षा] [प्रमाणतत्त्वं प्ररीक्ष्य सांप्रतं प्रमेयतत्त्वपरीक्षामुपक्रमते-] ६२६. ननु प्रमाणं भवतु ज्ञानरूपमज्ञानरूपं वा, परं तत्प्रमेयार्थमङ्गीक्रियते, प्रमीयते येन प्रमेयार्थस्तत्प्रमाणमिति निर्वचनात् । स च प्रमेयार्थः सामान्यं विशेषो वा, उभयमनुभयं वा, एकमनेक वा, अनेकमप्येकधर्मात्मकमनेकधर्मात्मकं वा, परस्परनिरपेक्षं सापेक्षं वा, वस्तुस्वरूपं वक्तव्यमवक्तव्यं वा, वक्तव्यावक्तव्यं वा, सविकल्पमविकल्पं वा, भावरूपमभावरूपं वा, निरपेक्षभावाभाबरूपं वा, [ परस्परसापेक्ष] उभयात्मकं वा, सगुणं निर्गुणं बा, परस्परनिरपेक्षमुभयं वा, [ परम्परसापेक्ष] उभयात्मकं वा, अद्वैतं द्रुतं वा, नित्यमनित्यं वा, निरपेक्षनित्यानित्यं वा, तदपि सापेक्ष वा, क्षणिकमक्षणिकं वा, क्षणिकाक्षणिकं वा, सर्वथा शून्य बा, स्वधर्मैः सम्बद्धमसम्बद्धं वा, सक्रियमक्रियं वा, शुद्धमशुद्धं वा, उपह्नतमनुह्न तं वा, इति पृष्टः स्पष्टमाचष्टे । [तत्र प्रथमं सामान्यमेव प्रमाणस्य विषय इति मतं समालोचति ६२७. न तावत्सामान्यमेव प्रमाणस्य विषयः, विशेषनिरपेक्षस्य तस्यासंभवात् । यदुक्तम् "निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् ।' मी० श्लो० आकृति० श्लो० १०] इति । निराश्रयस्य सामान्यस्य कचिस्कदाचित्कथंचित्केनचिदनुपलभ्यमानत्वात् , वन्ध्यास्तनन्धयवत् । सामान्यं हि नाम समानो धर्मः सधर्मः, स च खण्ड-मुण्डादि १. अत्रायं विशेष:-'सामान्यमनुवृत्तिस्वरूपम् । तच्च घटत्वं पृथुबुध्नोदराकारः, गोत्वमिति सास्नादिमत्त्वम् । तस्मान्न व्यक्तितोऽत्यन्तमन्यन्नित्यमेकमनेकवृत्ति ।'-न्यायदी० ५० ११७ ! 'सामान्यं द्विविधम्ऊध्र्वतासामान्यं तिर्यक सामान्यं चेति । तत्रोवंतासामान्यं क्रमभाविषु पर्यायेष्वैकत्वान्वयप्रत्ययग्राह्यं द्रव्यम् । तिर्यक्सामान्यं नानाद्रव्येय पर्यायेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160