Book Title: Pramanprameykalika
Author(s): Narendrasen Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith
View full book text
________________
३४
प्रमाणप्रमेयकलिका
2
व्यक्तिनिष्ठो विशेषः । ' अयुत सिद्धानामाधार्याधारभूतानामिहेदं प्रत्ययलक्षणो यः संबन्धः [ स ] समवाय: [ प्रशस्त० पृ० ५ ] इति भिन्नलक्षणलक्षितत्वं सर्वेषामपि प्रसिद्धम् । विभिन्नकारणप्रभचत्वं ह्यनित्यानामेव, न तु नित्यानाम्, ततो न भागासिद्धत्वम् । 'सदकारणवन्नित्यम्' [ वैशे० सू० ४-१-१ ] इति नित्यलक्षणस्य व्यवस्थितत्वात् । भिन्नार्थक्रियाकारित्वं च विभिन्नकार्यजनकत्वादेव सिद्धम् । विभिन्न कार्यजनकत्वं चामीषामुभयवादिप्रसिद्धत्वादेव नासिद्धम् । ततश्चामी हेतवो नासिद्धाः । नाऽपि विरुद्धाः, विपक्षवृत्त्यभावात् । नाऽप्यनैकान्तिकाः, पक्ष- सपक्षवद्विपक्षे वृत्त्यभावात् । नाऽपि कालात्यापदिष्टाः, पक्षस्य प्रत्यक्षादिवाधि - " तत्वानुपपत्तेः । 'प्रत्यक्षादिबाधितेऽर्थे प्रवर्तमानो हेतुः कालात्यापदिष्टः " [ न्यायमं० पृ० १६७ ] इति वचनात् । नाऽपि सत्प्रतिअल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सत् विशेषांख्यामवि लभते ।...स्वविषय सर्वगतमभिन्नात्मकमनेकवृत्ति" भा० पृ० ४ तथा १६४ ।
प्रशस्त ०
१. 'अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः । विनाशारम्भरहितेषु नित्यद्रव्येषु अण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धि हेतवः । प्रशस्त० भा० पृ० १६८ ।
――
स
सति दृष्टस्तथेह
२. ' अयुत सिद्धानामाचार्याधारभूतानां यः सबन्ध इहप्रत्यय हेतुः समवायः । यथेह कुण्डे दधीति प्रत्यय: संबन्धे तन्तुषु पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम् इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां संबन्ध इति ज्ञायते । न चासौ संयोगः संबन्धिनामयुतसिद्धत्वात् अन्यतरकर्मादिनिमित्तासम्भवात् ।' -प्रश० भा० पृ० १७१-१७२ । ७. 'कालात्ययापदिष्टः कालातीतः 'न्यायसू० १-२-९ । 'यथा प्राप्त हेतु प्रयोगकाल
[२. ९३५
1. 'ननु' पाठः । 2. नतो' पाठः । 3. 'बाधकत्वानुपपत्तेः' पाठः ।
7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160