Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 146
________________ -२.६५४] परमब्रह्म-परीक्षा ४१ ६५१. किं च, पक्ष-हेतु-दृष्टान्ता अनुमानोपायभूताः परस्परभिन्ना अभिन्ना वा । भेदे, द्वैतसिद्धिः । अभेदे त्वेकरूपताऽऽपत्तिस्तत्कथमेभ्योऽनुमानमात्मानमासादयति । यदि च हेतुमन्तरेणापि साध्यसिद्धिः स्यात्तर्हि द्वैतस्यापि वाङमात्रतः कथं न सिद्धिः । तदुक्तम हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ॥ [आप्तमी० का० २६] ६ ५२. 'सर्व वै खल्विदं ब्रह्म' इत्याद्यागमादपि न तत्सिद्धिः, तस्यापि द्वैताविनाभावित्वेनाद्वैतं प्रति प्रामाण्यासंभवात् । वाच्यवाचकभावलक्षणस्य द्वैतस्य तत्रापि दर्शनात् । तदुक्तम् कर्म-द्वैतं फल-द्वैतं लोक-द्वैतं विरुध्यते ।। विद्याऽविद्याद्वयं न स्याद् बन्ध-मोक्षद्वयं तथा ॥ [आप्तमी० का० २५] ततः कथमागमादपि तत्सिद्धिस्ततो न पुरुषाद्वैतमेव प्रमाणस्य विषयः। ६५३. नाप्यनेकमेव तत्त्वं प्रमाणस्य विषयः, तस्यापि परस्परनिरपेक्षस्य केवलसमान्यस्य विशेषस्य वा, तवयस्य वा प्रमाणाविषयत्वेन प्राक्प्ररूपितत्वात् । तन्नानेकमेव तत्त्वं [अपि तु] परस्परसापेक्षमेकमनेकं च [ तत् ] स्याद्वादिनामभीष्टमेव । [इथं नाद्वैतं नापि द्वैतं प्रमाणस्य विषय इत्यभिधाय प्रदश्यं च परस्परसापेक्षयोरेवैकानेकयोः प्रमाणविषयत्वमिति सप्तभङ्गीनयेन प्रदर्शयति-] ५४. यतः स्यादेकम, द्रव्यापेक्षया ॥१॥ स्यादनेकम् , पर्यायापेक्षया ॥२॥ स्यादेकानेकम् , क्रमेणोभयापेक्षया ॥३॥ 1. 'च नो भवेत्' इत्याप्तमीमांसापाठः । 2. 'स्याद्वादवादिनाम्-'पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160