Book Title: Pramanprameykalika
Author(s): Narendrasen Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith
View full book text
________________
४२
प्रमाणप्रमेयकलिका
[२.६५४स्यादवक्तव्यम् , युगपद्व्यपर्यायापेक्षया वक्तुमशक्यत्वात् ॥४॥ स्यादेकावक्तव्यम् , द्रव्यापेक्षत्वे सति युगपद्रव्यपर्यायापेक्षया वक्तमशक्यत्वात् ॥॥ स्यादनेकावक्तव्यम् , पर्यायापेक्षत्वे सति युगपद्व्यपर्यायापेक्षया वक्तुमशक्यत्वात् ॥६॥ स्यादेकानेकावक्तव्यम् , क्रमार्पितद्रव्यपर्यायापेक्षत्वे सति युगपद्रव्यपर्यायापेक्षया वक्तुमशक्यत्वात् ॥७॥ इति सप्तभङ्गी
१ ननु केयं सप्तभङ्गी, इति चेत्, उच्यते, 'प्रश्नवशादेकत्र वस्तुन्यवरोधेन विधिप्रतिषेधकल्पना सप्तभङ्गी ।'-तत्वार्थवा० १-६ । न्यायविनिश्चयेऽपि श्रीमदकलङ्कदेवरुक्तम्
द्रव्यपर्यायसामान्यविशेषप्रविभागतः ।
स्याद्विधिप्रतिषेधाभ्यां सप्तभङ्गी प्रवर्तते ॥४५१॥ श्रीयशोविजयोऽप्याह--'एकत्र वस्तुन्येककधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गो। इयं च सप्तभङ्गी वस्तुनि प्रतिपर्यायं सप्तविध. धर्माणां सम्भवात् सप्तविधसंशयोत्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते ।'-जैनतर्कभा० पृ० १६ । 'ननु एकत्रापि जीवादिवस्तुनि विधीयमान निषिध्यमानानन्तधर्मसद्भावात्तत्कल्पनाऽनन्तभङ्गी स्यात् (न तु सप्तभङ्गी), इति चेत्, न, अनन्तानामपि सप्तभङ्गीनामिष्टत्वात्, तत्रैकत्वानेकत्वादिकल्पनयापि सप्तानामेव भङ्गानामुपपत्ते;, प्रतिपाद्यप्रश्नानां तावतामेव संभवात्, प्रश्नवशादेव सप्तभङ्गीति नियमवचनात् । सप्तविध एव प्रश्नः कुत इति चेत्, सप्तविधजिज्ञासाघटनात् । साऽपि सप्तविधा कुत इति चेत्, सप्तधा संशयोत्पत्तेः । सप्तधैव संशयः कथमिति चेत्, तद्विषयवस्तुधर्मसप्तविधत्वात् ।'--अष्टस० पृ० १२५, १२६ । के ते वस्तुनिष्ठाः सप्तधर्मा इत्यत्रोच्यते--(१) सत्त्वम् (२) असत्त्वम्, (३) क्रमार्पि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160