Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 132
________________ -२. ६ २६] विशेष-परीक्षा २७ ८. एतेन 'विशेष एव प्रमाणस्य विषयः' इति सोगताभिमतमपि निरस्तं बोद्धव्यम् , तस्यापि केवलस्य युगसहस्रेणाऽप्यप्रतिभासनात् । तदप्युक्तम्'सामान्यरहितत्वेन विशेषास्तद्वदेव हि । [ मी० श्लो० आकृति० श्लो० १] इति । ६२६. विशेषो' हि नाम व्यावृत्तिलक्षणो धर्मः, स च धर्मिणो द्रव्यस्याभावे कौतस्कुतः प्रमाणतामियुयात् । अथ द्रव्यस्य कस्यचिदपि विचार्यमाणस्याभावात कथं विशेषाणां तदपेक्षा । स्वतन्त्रा एव विशेषाः प्रतिभासन्ते । तथा हि-विशेषा एव तत्त्वम् , प्रत्यक्षादिप्रमाणानां तद्गोचरचारित्वेनैव प्रामाण्याभ्युपगमात्, न च द्रव्यत्वसामान्यं प्रमाणतः सिद्धम् । ततो नास्ति द्रव्यम् , प्रत्यक्षादिप्रमाणाविषयत्वात् , शशविषाणवत्। तथा हि-नाध्यक्ष तत्साधकम् , तस्य रूपादिनियतगोचरचारित्वात् , सम्बद्ध वर्तमानविषयत्वाच्च । चाक्षुषाऽध्यक्षेण रूपमेव सम्बद्धं वर्तमानं च गृह्यते । स्पार्शनेन स्पर्श एव, घ्राणजेन गन्ध एव, रासनेन रस एव, श्रावणेन शब्द एव, न तु रूप-रस-गन्ध-स्पर्श-शब्दानां परस्परपरि १ को नाम विशेष इत्यारेकायामाह विशेषेति । 'विशेषो नाम 'स्थूलोऽयं घटः, सूक्ष्मः इत्यादिव्यावृत्तप्रत्ययालम्बनं घटादिस्वरूपमेव ।'न्या० दी० पृ० १२० । तदुक्तं परीक्षामुखे-'विशेषश्च' । ४-६ । 'पर्यायव्यतिरेकभेदात् ।' ४-७ । “एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत् ।' ४-८। 'अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ।' ४-९ । 1. 'युगसहस्रणा' पाठः । 2. स्पार्शन' पाठः । 3. 'घ्राणेन' पाठः । 4. 'श्रवणेन' पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160