________________
-२. ६ २६] विशेष-परीक्षा
२७ ८. एतेन 'विशेष एव प्रमाणस्य विषयः' इति सोगताभिमतमपि निरस्तं बोद्धव्यम् , तस्यापि केवलस्य युगसहस्रेणाऽप्यप्रतिभासनात् । तदप्युक्तम्'सामान्यरहितत्वेन विशेषास्तद्वदेव हि ।
[ मी० श्लो० आकृति० श्लो० १] इति । ६२६. विशेषो' हि नाम व्यावृत्तिलक्षणो धर्मः, स च धर्मिणो द्रव्यस्याभावे कौतस्कुतः प्रमाणतामियुयात् । अथ द्रव्यस्य कस्यचिदपि विचार्यमाणस्याभावात कथं विशेषाणां तदपेक्षा । स्वतन्त्रा एव विशेषाः प्रतिभासन्ते । तथा हि-विशेषा एव तत्त्वम् , प्रत्यक्षादिप्रमाणानां तद्गोचरचारित्वेनैव प्रामाण्याभ्युपगमात्, न च द्रव्यत्वसामान्यं प्रमाणतः सिद्धम् । ततो नास्ति द्रव्यम् , प्रत्यक्षादिप्रमाणाविषयत्वात् , शशविषाणवत्। तथा हि-नाध्यक्ष तत्साधकम् , तस्य रूपादिनियतगोचरचारित्वात् , सम्बद्ध वर्तमानविषयत्वाच्च । चाक्षुषाऽध्यक्षेण रूपमेव सम्बद्धं वर्तमानं च गृह्यते । स्पार्शनेन स्पर्श एव, घ्राणजेन गन्ध एव, रासनेन रस एव, श्रावणेन शब्द एव, न तु रूप-रस-गन्ध-स्पर्श-शब्दानां परस्परपरि
१ को नाम विशेष इत्यारेकायामाह विशेषेति । 'विशेषो नाम 'स्थूलोऽयं घटः, सूक्ष्मः इत्यादिव्यावृत्तप्रत्ययालम्बनं घटादिस्वरूपमेव ।'न्या० दी० पृ० १२० । तदुक्तं परीक्षामुखे-'विशेषश्च' । ४-६ । 'पर्यायव्यतिरेकभेदात् ।' ४-७ । “एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत् ।' ४-८। 'अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ।' ४-९ ।
1. 'युगसहस्रणा' पाठः । 2. स्पार्शन' पाठः । 3. 'घ्राणेन' पाठः । 4. 'श्रवणेन' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org