________________
२६
प्रमाणप्रमेयकलिका [२. ६ २७व्यक्त्यभावे कुतः स्वात्मानमासादयति । तथा च प्रयोगःनास्ति केवलं सामान्यम्, व्यक्त्यभावेऽनाश्रितत्वात् । यो हि वास्तवो धर्मः स न अनाश्रयो दृष्टः, यथा सुख-दुःख-हर्प-विषादादिः, अनाश्रितश्चायम् (सामान्यरूपो धर्मः), तस्मानास्ति । तच्च सामान्यं वास्तवमवास्तवं वा । न तावदवास्तवम् , सौगतमतानुषङ्गात् । नापि वास्तवम् , वास्तवे तत्किं धर्मो धर्मी वा स्यात् । धर्मश्चेत् , स किं साधारणोऽसाधारणो वा । न तावदसा. धारणः, तस्य विशेषरूपताऽऽपत्तः । अथ साधारणः, स चासिद्धः, यतः कैः सह साधारणत्वं तस्य, पदार्थान्तराभावात् । तदभावश्च प्रमाणाविषयत्वात् । प्रमाणविषयत्वेन केवलं सामान्यमेवाङ्गीक्रियते [भवता] । तदित्थं न साधारणोऽपि धर्मो विचारणां प्राञ्चति । नापि धर्मी, सामान्यस्य पदार्थधर्मत्वात् । धर्मित्वेनाङ्गीक्रियमाणस्य तस्य स्वरूपेणैवासिद्धत्वात् । धर्मिणः पदार्थत्वेन सर्वैरपि लौकिकैः परीक्षकैर्वाऽङ्गीकरणात्सामान्यमात्रमेव तत्त्वमिति पक्षे कक्षीक्रियमाणे धर्मिणः कस्यचिदप्यभावात् । धर्मीसामान्यमिति सामान्यमात्रं बन्ध्यास्तनन्धयो गौर इत्यादिवत् कथं न विरोधमास्कन्दति । तस्माद्गगनारविन्दमकरन्दव्यावर्णनमिव 'सामान्यमेव प्रमाणस्य विषय' इत्यादि सर्वमनवधेयार्थविषयत्वेनोपेक्षामर्हति ।
[विशेष एव प्रमाणस्य विषय इति सौगतमतमुपन्यस्य तदपि समालोचयति-] च सादृश्यप्रत्ययग्राह्य सदृशपरिणामरूपम् ।'-युक्त्यनुशा० टी० पृ० ९० । 'सामान्यं द्वधा तिर्यगूर्ध्वताभेदात् । ४-३ । 'सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्ववत् ।' ४-४ । 'परापरविवर्त्तव्यापि द्रव्यमूर्ध्वता, मृदिव स्थादिषु ।'-४-५ । परीक्षामुख ।
1. 'व्यक्त्याभावे' पाठः । 2. "दिर्यथा' पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org