________________
२८
प्रमाणप्रमेयकलिका [२.६ २६हारेणावस्थितानां विशेषरूपाणां व्यापक द्रव्यं चाक्षुषादिप्रत्यक्षा*सिद्धम् । तत्कथं प्रत्यक्षतरतत्सद्भावः । [नाप्यनुमानं तत्साधकम्, तस्य संबन्धग्रहणपूर्वकत्वात् , संबन्धग्राहक च न किंचित्प्रमाणमस्ति ] | न तावत्प्रत्यक्षं तत्संबन्धग्राहकम् , तेन तथाविध साध्यसाधनसम्बन्धस्याग्रहणात् । द्विष्ठो हि सम्बन्धः, एकस्य ग्रहणेऽपि अन्यस्याग्रहणे तदसंभवात् । तथा चोक्तम्---
द्विष्ठसंबन्धसंवित्तिनैकरूपनवेदनात् । द्वयोः स्वरूपग्रहणे सति संबन्धवेदनम् ।।
[प्र० वार्तिकाल०१-२] इति ।। ६३०. प्रत्यक्षस्य तदग्रहणं कुत इति चेत् , तस्य रूपादिनियतगोचरचारित्वेन प्राक् प्ररूपितत्वात् । पर्यायमात्रग्रहणे पर्यवसित
१. तुलना---'न हि प्रत्यक्षं यावान्कश्चिद्धमः कालान्तरे देशान्तरे च पावकस्यैव कार्य नार्थान्तरस्येतीयतो व्यापारान् कर्तुं समर्थम्, सन्निहितविषयबलोत्पत्तेरविचारकत्वात् ।'-लघीय० विवृ० का० ११, अष्टस० पृ० २८०, प्रमाणपरी० पृ० ७०, प्रमेयक० ३-१३ । प्रमेयरत्न ३-२, पृ० ३६ ।
२. इयं कारिका निम्नग्रन्थेष्वपि समुद्धृता--तस्वार्थश्लो० वा० ५-२४, पृ० ४२१ । सिद्धिविनिश्चय पृ० १३० । सन्मतितर्क पृ० ४८३ । रत्नाकरावता० १-२०, पृ० ४२ । स्याद्वादर० का० १६, पृ० १३० ।
1. 'चक्षुरादि' पाठः। 2. 'प्रत्यक्षासिद्धम्' पाठः। 3. अत्र पाठः त्रुटितः प्रतीयते, अतः कोष्ठकान्तर्गतः पाठोऽस्माभिनिक्षिप्तः । --संपादकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org