Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 123
________________ १८ प्रमाणप्रमेयकलिका [ १.६ १७६ १७. अथ 'प्रतिज्ञार्थंकदेशासिद्धत्वाद्धेतोः प्रमाणत्वस्य न प्रकृतसाध्यं प्रति गमकत्वम्, इति मतिः, सापि स्वविकल्पकल्पनाशिल्पिकल्पितैव, प्रतिज्ञार्थकदेशासिद्धत्वस्य दोषाभासत्वात् । का पुनः प्रतिज्ञा, तदेकदेशो वा । धर्मिधर्मसमुदायः प्रतिज्ञा, तदेकदशो धर्मो धर्मी वा स्यात् । न तावद्धर्मः, तस्य सर्वात्मनैवासिद्धत्वात्कथमेकदेशासिद्धत्वम् । धर्मी चेत्, तदपि न साधीयः, तस्य पक्षप्रयोगकालवद्धतुप्रयोगकालेऽपि सिद्धत्वात्कथमसिद्धत्वं नाम । इति न प्रतिज्ञार्थंकदेशासिद्धत्वम् ।। ६१८. अथार्थज्ञानं प्रमाणं चेत् , तस्य किं फलम् । प्रमाणेन फलवता भवितव्यम् , इत्यनालोचितवचनं नैयायिकानाम् । तत्फलं हि साक्षादज्ञाननिवृत्तिः। परम्परया तु हानोपादानोपेक्षा स्वपरावभासि ज्ञानं बाधविवर्जितम् ।'-न्यायावतार का. १ । 'प्रमीयन्तेऽ स्तैिः इति प्रमाणानि ।'-तत्त्वा० भा० १-१२ । 'प्रमाणं स्वार्थनिर्णोतिस्वभावं ज्ञानम् ।'-सन्मतित० टी० पृ०५१८ । 'स्वपरव्यवसायि ज्ञानं प्रमाणम् ।'-प्रमाल० १-२ । 'सम्यगर्थनिर्णयः प्रमाणम् ।'-प्रमाणमी. १-१-२ । स्या० मं० पृ० २२८ । 'सम्यग्ज्ञानं प्रमाणम् ।'-न्या. दी० पृ० ९। १. तुलना-'प्रतिज्ञार्थंकदेशत्वात्पदार्थानां ह्य लिङ्गता।'-मी० श्लो. श्लो० २३२ । 'प्रतिज्ञार्थंकदेशासिद्धो हेतुरिति चेत् , का पुनः प्रतिज्ञा तदेकदेशो वा । धर्मिधर्मसमुदायः प्रतिज्ञा। तदेकदेशो धर्मो धर्मी वा ।'प्रमेयरत्न.पृ० ४० । २. तुलना—'उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥'.-..-प्राप्तमी० का० १०२ । 'सिद्धप्रयोजनत्वात्केवलिनां सर्वत्रोपेक्षा 'मत्यादेः साक्षात्फलं स्वार्थव्यामोहविच्छेदः "परम्परया हानोपादानसंवित्तिः फलमुपेक्षा वा मत्यादेः।-अष्टश. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160