Book Title: Pramanprameykalika
Author(s): Narendrasen  Maharaj, Darbarilal Kothiya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 115
________________ · प्रमाणप्रमेयकलिका [१.६७तस्मान्नेन्द्रियवृत्तिः प्रमाणम् । [ भट्टजयन्ताभिमतस्य कारकसाकल्यस्य प्रामाण्यनिरासः-] ६७. नापि कारकसाकल्यम्, तस्य स्वरूपेणैवासिद्धत्वात् । १. तुलना-'अव्यभिचारिणीमसन्दिग्धामर्थोपलब्धिं विदधती बोधाऽबोघस्वभावा - सामग्री प्रमाणम् । बोधाऽबोधस्वभावा हि तस्य स्वरूपम, अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम् ।' –न्यायमं० पृ० १२. कारकसाकल्यापरनामिकां सामग्री प्रमाणयन् भट्टजयन्तो न्यायमन्जर्याम् तामेव सामग्री प्रमाणत्वेन समर्थयन्नाह--'यत एव साधकतमं करणं करणसाधनश्च प्रमाणशब्दः, तत एव सामग्यः प्रमाणत्वं युक्तम् । तद्वयतिरेकेण कारकान्तरे क्वचिदपि तमबर्थसंस्पर्शाऽनुपपत्तेः । अनेककारकसन्निधाने कार्यं घटमानं, अन्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत् । न चातिशयः कार्यजन्मनि कस्यचिदवधार्यते सर्वेषां तत्र व्याप्रियमाणत्वात्। स च सामग्यान्तर्गतस्य न कस्यचिदेकस्य कारकस्य कथयितुं पार्यते । सामग्यास्तु सोऽतिशयः सुवचः ; सन्निहिता चेत् सामग्री सम्पन्नमेक फलम् इति सैव अतिशयवती।'-न्यायमं० पृ० १२-१३ । भट्टजयन्तः पुनरपि तामेव प्रमाणयन्नाह-'यत्तु किमपेक्षं सामन्यः करणत्वम् इति; 'तदन्तर्गतकारकापेक्षम्' इति ब्रूमः । कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते, साकल्यदशायामपि तत्स्वरूपप्रत्यभिज्ञानात्"""तस्मात् अन्तर्गतकारकापेक्षया लब्धकरणस्वभावा सामग्रो प्रमाणम् ।'-न्यायमं० पृ० १३ । अस्य कारकसाकल्यस्य प्रमेयकमलमातण्ड-न्यायकुमुदचन्द्र-न्यायविनिश्चयविवरण-स्याद्वादरत्नाकरप्रभृतिषु जैनग्रन्थेषु विस्तरतः समालोचना समुपलभ्यते । तथाहि-तत्र प्रमाणस्य 'ज्ञानम्' इति विशेषणेन 'अव्यभिचारादिविशेषण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160