Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 3
________________ आहतमतप्रभाकरपरिचयः। अयि श्रेष्ठा विद्वांसः सज्जनवरेण्याश्च । शासनदेवकृपाकटाक्षवशात् अल्पमतेरपि मम बाल्यादेव स्याद्वादग्रन्थाध्ययने मतिरभूत् । ततो मया यावच्छक्यं साधनान्युपयुज्य सपरिश्रममध्ययनमारभ्यत । तदानीं प्रतिपदमनुभूतिपदमारूढं यत् संस्कृतप्राकृतजैनग्रन्थानां दौर्लभ्यम् । केचन ग्रन्था अद्यावधि न मुद्रिताः केचन मुद्रिता अपि दुर्लभाः । सुलभा अपि मुद्रिताः केचित् न विद्यार्थिन उपकुर्वन्ति विषयवैशद्यबोधकटिप्पनीपाठान्तरादिरहितत्वात् । तदेतदाकलय्य मनसि किंचिदिव पूर्वोक्तत्रुटीरपहर्तुं 'आहेतमतप्रभाकर'नानी संस्थामस्थापयम् । संस्थया चानया जैनसंस्कृतप्राकृतभाषामया न्यायव्याकरणाध्यात्मिकागमादिग्रन्था मुद्रणीया वक्ष्य: माणरीत्या । १ अधुना सर्वसंमता पुस्तकाकृतिरालम्बनीया ग्रन्थानाम् । पुस्तकानि च घनचिकणपत्रात्मकानि (डेमी अष्टपेजी) भवेयुः । २ अधोभागे विशदार्थबोधिन्यष्टिप्पन्यो मुद्रणीयाः । ३ ग्रन्थकृदुध्दृतानि सर्वाणि वचांसि अन्थनामस्थलादिनिर्देशपूर्वकं दर्शनीयानि टिप्पन्याम् । ४ यावच्छक्यं प्राचीनपुस्तकानि तालादिपत्रलिखितानि समुच्चित्यार्थभेददर्शकानि पाठान्तराणि संग्राह्याणि । ५ आदौ सविस्तरमुपोद्धातः संकृतभाषया निबन्धनीयो यत्र च ग्रन्थस्यान्तरङ्गबहिरङ्गपरीक्षणं ग्रन्थकृच्चरितमैतिहासिकदृष्टयाऽन्ये च तदुपयुक्ताः समयान्तरीयशास्त्रीयनिर्देशाः संग्रथनीयाः । ६ एतस्मिन सर्वस्मिन् गुणजाते द्रव्यादिव्ययमविगणय्य संपादितेऽपि यावच्छक्यं प्रन्थानां मूल्याल्पता संपादनीया । एतत्कार्य विना विदुषां करुणैकपक्षपातिनां साहाय्यं न सेत्स्यतीति दृढं प्रत्येमि तदर्थं सर्वे विद्वांसः संप्रार्थ्यन्ते यावच्छक्यं लिखितग्रन्थार्पणेन संशोधनेन च तैरुपकृतिः संपादनीयेति। अधुना शासनदेवकृपया प्राच्यविद्याविशारदानां नव्यसंस्कारसंस्कृतानां पण्डितानां च साहाय्यमलम्भि मया । तत्साहाय्येनैव १प्रमाणमीमांसा २ सभाष्यतत्वार्थसूत्राणि ३ स्याद्वादमञ्जरी ४ औपपातिकसूत्राणि इति ग्रन्थचतुष्कं आहेतमतप्रभाकरमयूखचतुष्करूपं प्राकाशि । अतः परं १ धर्मसंग्रहणी २ स्याद्वादरत्नाकरः ३ हैमव्याकरणम् • ४ छन्दोऽनुशासनम् ५ सूत्रकृताङ्गम् । इत्यादयो ग्रन्थाः प्रकाशनीया इति संकल्पः । अत्र विद्वद्भिः साहाय्यदानेनानुग्राह्योऽहमिति साञ्जलिबन्धं सप्रश्रयं संप्रार्थकःआर्हतमतप्रभाकरकार्यालयः। विद्वद्वशंवदः भवानीपेठ घ. नं. १९६ पूना. मोतीलाल लाधाजी

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 136