Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad

View full book text
Previous | Next

Page 437
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ अभव्यानां समारम्भः, परकार्यविरोधकः । नीचस्थानं गते भौमे, कुतः स्यात्सुखवेदनम् ॥ २४९ ॥ निन्दनीयतमं लोके, कुत्सितानां विचेष्टनम् । यद्वशे पतितो देही, पङ्के गौरिव सीदति ।। २५० || दुष्टानां चरितं वक्रं, खला एव विजानते । भुजङ्गानां पदारोहं, विदन्ति भुजगाः सखे ।। २५१ ॥ खलसंसर्गतो ज्ञानं, समूलं हि विनश्यति । राहुच्छायागतो दृष्टो, निस्तेजाः शशभृन्न किम् ॥ २५२ ॥ मायाविनोविकाराय, प्रभवन्ति न शान्तये । आत्मगुप्ताप्रयोगेण, कूर्दन्ति कपयो यथा ॥ २५३ ॥ दुर्जनानां वचो मिष्टं जायते जीवितापहम् । " शर्कराभक्षिणो नूनं, खराः प्राणपराङ्मुखाः ॥ २५४ ॥ असदर्थग्रहेणैव, सदर्थो नैव लभ्यते । विक्रीते काचखण्डेऽपि, रत्नमूल्यं सुदुर्लभम् ।। २५५ ।। साधवः स्वसदाचारं त्यजन्ति संकटेऽपिनो । पयोरावृतस्याऽपि तिग्मरश्मेः सदागतिः ।। २५६ ॥ परार्थसाधकाः सन्तः, पर्यटन्ति दयालवः । राहुणा ग्रस्यमानोऽपि, चन्द्रचरति निर्भयः ।। २५७ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471