Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad

View full book text
Previous | Next

Page 455
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२९ Acharya Shri Kailassagarsuri Gyanmandir गुणवत्सु हि रज्वन्ते, गुणिनो नरपुङ्गवाः । द्विरेफा द्विपगण्डेषु, मदलितेषु रागिणः ॥ ४११ ॥ न कर्मणामनारंभा - जनता पापभागिनी । साधुसङ्गरतो लोको - नपतत्येव कार्हिचित् ॥ ४१२ ॥ कथंचिदक्षतां प्राप्य, दानेषु विरता नराः । अधमस्थितिमाश्रित्य पतन्त्युत्तङ्गभावतः || ४१३ ॥ अधमा धनलोभेन, नैव पश्यन्ति दुष्क्रियाम् । तस्माल्लोभभट जित्वा सत्क्रियाराधको भवेत् ।। ४१४ ॥ हृद्यया विद्यया किं स्या- यदि न स्याद्विनम्रता । विनयेन वशं याति, जगदेतच्चराचरम् ।। ४१५ ।। भव्यानामेव सवानां विनयः परिवर्तते । नैसर्गिको हि सद्भावः, सर्वदा शोभतेतराम् ॥ ४१६ ॥ मानवन्तः सदालोके, पूज्यन्ते नरपुङ्गवाः । अधर्मोपहताः काऽपि, नाऽऽद्रियन्ते मनीषिभिः || ४१७ ।। संपत्तौ च विपत्तौ च, विद्वांसः स्वस्थचेतसः । सुखदुःखं समं कृत्वा, शेरते शान्तिसमनि ॥ ४१८ ॥ सुधियः सत्ययोगेन, तरन्ति भववारिधिम् । कामदुग्रहसंक्षुब्धं, विषमं ध्यानसंगताः ॥ ४१९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471