Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्मालपदायिन्यो, न्यायमूलाः सुसंपदः । ___ ताः समासाद्य धर्मज्ञै-नियोक्तव्याः सुवर्मनि ॥४५६ ।। स्पृश्याऽस्पृश्यविभेदेन, द्विविधो लौकिकक्रमः ।
आधः सत्कर्मणा जातो, ह्यसत्कर्मभिरन्तिमः ।। ४५७॥ अन्येऽपि जातिभेदास्तु, बामणक्षत्रियादयः । ___ गुणकर्मानुसारेण, विश्रुता न तु कल्पिताः ॥४५८ ॥ नीचो नाचगुणोत्साही, क्षुद्रकर्मरतः सदा ।
प्रासादशिखरं यातः, काकोमेध्यरतो न किम् ।।४५९॥ हश्यन्ते बहवः पापाः, स्वच्छवेशधरा नराः ।
मलीनहदयास्तेषां, स्पृश्यत्वं सुलभं न वै ॥ ४६० ॥ अन्त्यजोऽपि निजौचित्यं, न्यायतो न जहाति चेत् ।
जन्मान्तरे सुजातित्वं, लभते स्पृश्यतायुतम् ।। ४६१ ॥ उत्तमो यदि लोकेऽस्मि-बिन्धकर्मपरायणः ।
भवान्तरे स हीनत्व-मस्पृश्यत्वञ्च गच्छति ।। ४६२॥ तृष्णार्दितजनोऽजस्रं, पर्यटत्यतिवान्छया। __ स्वयं न तृप्तिमायाति, परपीडामनुसजन् ।। ४६३ ।। संन्तोषाऽमृततृप्ता ये, विदन्ति सुखमुत्कटम् । कुतस्तद्धनलुब्धाना-मसन्तोषनिषेविणाम् ।। ४६४ ॥
For Private And Personal Use Only

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471