Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad

View full book text
Previous | Next

Page 464
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ गुणगौरवतां याति, जनो निर्मलमानसः । प्रशस्तान्वयजातोऽपि, निर्गुणो लघुताऽऽस्पदम् ॥४९१॥ सन्तोषानपरं सौख्यं, ध्यानानास्त्यन्यतारकः । क्रोधानास्तिपरः शत्रु-र्लोमानान्यः पराभवः॥ ४९२ ॥ ममादानपरो द्रोही, दारिद्यान्नन्यदुःखदः । उद्यमानपरो बन्धुः, क्षुधातुल्या न वेदना ॥ ४९३ ॥ चिन्तया क्षीयते ज्ञानं, ज्ञाने नष्टे च विस्मृतिः । विस्मृतौ हि कुतः स्थैर्य, चेतसो विबुधभिय ! ॥४९४।। शीलमेव परं स्त्रीणां, संमतं हि विभूषणम् । इतरारभूतं त-द्रत्नकाञ्चननिर्मितम् ।। ४०५ ।। निन्दितं जीवनं यस्य, विधुरं किमतः परम् । विदिताऽध्वप्रयाणं हि, सज्जनानां प्रियङ्करम् ॥४९६|| गिरा मधुरया जिहा, रसाऽऽस्वादवती सदा । पीडनेन मिथोऽधीत्या, दन्तास्तु श्रमवेदिनः ॥४१॥ दानदक्षतया हस्तो-दक्षिणः पूज्यताऽऽस्पदम् । चामस्वशुचिकार्यण, न तत्साम्यमुपागमत् ॥४९८|| रसना नम्रतावित्ता, मधुरं रसमहति । अनम्रा द्विरदश्रेणी, सदैव श्रमवेदिनी ।। ४९९ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471