Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad

View full book text
Previous | Next

Page 462
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मणोत्पद्यते शर्म, कर्मणा च विलीयते । तेनैव वर्द्धते पुण्यं, सर्वमूलं हि तत्स्मृतम् ॥ ४७४ ॥ कर्मदोलां समारूढो-यः स्वातन्त्र्यमनर्गलम् । समालम्ब्य क्रियां कुर्या-त्स व्रजेत्पारमागसाम् ॥४७५॥ निन्दितोऽपि चरेद्धर्म, सर्वसिद्धिमदायकम् । यत्मभावेण बन्येत, सर्वलोकोपकारकः ॥ ४७६ ॥ दुःखश्रेणिं समापनो-धर्माराधनमिच्छति । स नरो निर्मलस्वान्तो-ऽचिरेण भजते सुखम् ॥ ४७७ ॥ दुःखपङ्कनिमग्नोऽपि, धर्मालम्बनमाश्रितः । अञ्जसाऽऽपत्तिमुत्सृज्य, प्रयात्येव परं पदम् ॥ ४७८ ॥ दानेनोच्चपदप्राप्तिः, संग्रहेणाधमा गतिः। उच्चस्थानं पयोदानां, पयोधीनामधः पुनः । ४७९ ॥ दानेन स्वर्गमामोति, दानमेवोत्तमः सुहृत् । दारिद्यनाशकं दानं, तस्मादानपरो भवेत् ॥ ४८० ॥ दानासक्तो महात्यागी, कर्णोऽभूदभूमिवल्लमः । प्रतिज्ञाताधरक्षायां, साधवः सुदृढाशयाः ॥ ४८१ ।। दानमन्त्रप्रभावेण, भवन्ति वशवर्तिनः । देहिनो दक्षताशुन्याः, किमसाध्यं महात्मनाम् ॥४८२।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471