Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परकीयसुखंदृष्ट्वा, यो निजं कर्तुमिच्छति।
सुख तु दुलभ मन्ये, सुतरांदुःखसन्ततिः ॥ ४६५।। प्रार्थनादिप्रयोगेण, परद्रव्योपजीविनः । __ असिद्धिः सर्वथा तेषां, परमार्थगतिः कुतः ॥ ४६६ ।। परस्वेन निजां पुष्टिं, ये चिकीर्षन्ति मानवाः।
किं तेन सुकृतं लोके, तेषां जन्मनिरर्थकम् ॥ ४६७ ।। कदश्वेन तो राजा, निर्वेदमभिपद्यते ।
तद्वन्नीचजनाऽऽसक्तो-हीयते मानवोधमः ॥ ४६८ ॥ परदाररतो जन्तु-रवशः परिभूयते ।।
अवामोत्युभयत्राश-मपमानं पदे पदे ॥ ४६९ ॥ इन्द्रियाग्निपराभूतो-यः शान्तिमाभिवाञ्छति ।।
कालकूटविषं भुक्त्वा, जीवितेच्छःस दुर्मतिः ॥ ४७० ।। नाऽभीष्टं लभते जन्तुः, कर्मपाशनियन्त्रितः।
सुखदुःखं समं कृत्वा, तस्मान्नीतिपरोभव ॥४७१ ।। इष्टं न कस्यचिदःखं, सर्वेषां सुखमीप्सितम् ।
कर्मयन्त्रप्रभावेण, प्राप्यते द्वितयं खलु ।। ४७२ ॥ न वेत्ति कर्मभूभर्तु-र्माहात्म्यं मोहितो जनः ।
कर्मराशिमनुत्सृज्य, कोऽयासीत्परमां गतिम् ॥४७३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471