Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad

View full book text
Previous | Next

Page 454
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ संसाराऽरण्यवासोऽयं-प्रचण्डदुःखदायकः। कथं क्लेशमयस्तुभ्यं, रोचते मतिशालिने ॥ ४०२ ॥ अकस्मादागतं दुःखं, विचिन्त्य बुद्धिमानरः। शोकसागरमवमत्य, प्रमोदाराममाश्रयेत् ॥ ४०३ ॥ अनित्येन शरीरेण, रोगग्रस्तेन नित्यशः । यदि स्यात् परकार्य चे-त्तेन लब्धं भवेन्न किम् ॥४०४॥ परोपकृतये सर्व, सतां सर्वत्र संमतम् । इतरेषान्तु यमुक्तं, तदेव सफलं मतम् ॥ ४०५ ॥ नन्दितोऽपि चरेत्पापं, नीचो नीचक्रियारतः । वायसो मधुरं भुक्त्वा , ऽमेध्यवस्तु निषेवते ।। ४०६ ॥ मांसभोजी महादुष्टः, परमाणापहारकृत् । विरूद्धकर्मकारित्त्वा-न्नरकेषु विपच्यते ।। ४०७ ॥ सर्वदानेषु सदान-मभयं परिचक्ष्यते । सर्वदा प्राणिनः सर्वे, समीहन्ते हि जीवनम् ॥४०८॥ मांसमद्यपरित्यागी, मेधते जनसंमतः । मेधाविनो न रज्यन्ते, व्यसनेषु कदाचन ॥४०९॥ बरं विमवहीनोऽपि, न पुनर्व्यसनप्रियः । राजते रजनीकान्तो,-लाञ्छितोऽपि कलानिधिः॥४१०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471