Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad

View full book text
Previous | Next

Page 436
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लुब्धस्य चेष्टितं चित्रं, क्रियाकाण्डस्तु मोहकः । वाग्वैशयं मनोहारि, वक्रता प्राणहारिणी ।। २४० ॥ केन सृष्ठमिदं रत्नं, लोभनामकमुत्कटम् । ___ संगतो यद्वशं जन्तु,-जेडरूपो भवत्यहो ॥२४१॥ लोभाग्नौ निपतन्त्येव, शलभा इव देहिनः । ___ मूढता हेतुरत्रैवा,-ऽन्यथा तत्संगतिः कथम् ॥ २४२ ।। लुब्धा नरा न पश्यन्ति, कामिन इव मोहतः । __ इहैव दुःखिता यान्ति, नरकालयमुत्कटम् ।। २४३ ॥ वेदनाव्यथिता लुब्धाः, स्वार्थभ्रष्टाः पदे पदे । ___ केवलव्याधिवेदिन्यो-न दृष्टाः सरघाः किमु ॥ २४४॥ वित्तानां रक्षणे यत्न, कुर्वन्ति कृपणा जनाः । भुञ्जते ददते नैव, केवलं व्ययगामि यत् ॥ २४५ ॥ मुलभः सर्वदा लोके, समवायो विरोधिनाम् । ओतुमुषकसङ्घो हि, प्रतिवेश्म विलोक्यते ॥ २४६ ।। दुर्लभः सुतरां सारः, सज्जानां समागमः । कमलाऽऽवासितं वारि, क्वचिदेव समीक्ष्यते ॥ २४७ ॥ भव्या भवन्ति भूतानां, नितरां शान्तिदायकाः । सौम्या ग्रहा निषेवन्ते, क्रूरतां न कदाचन ॥ २४८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471