Book Title: Prakarana Sukhsindhu Part 2
Author(s): Ajitsagarsuri
Publisher: Vitthalbhai Jivabhai Patel Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
कामितानि न सिद्ध्यन्ति, कुटिलानां मनस्त्रिनाम् ।
अन्यथा जीवनं नृणां, सरलानां कथं भवेत् ॥ ३७५ ॥ करुणाशालिनां पुसां, जीवनं संमतं वरम् । निर्दयानां मृतिः शस्या, परपीडापकारिणी || ३७६ ।। कालक्रमप्रभावेण, निर्दयास्तु पदे पदे । दृश्यन्ते विरला लोके, दयावासितमानसाः ॥ ३७७ ॥ दुर्लभा इष्टकार्याणां साधकाः सत्यवेदिनः ।
अनिष्टकारिणस्त्वत्र, बहवो दृष्टिरोधकाः || ३७८ ।। न बलं बलमित्याहु-र्बलमात्मसमुद्भवम् । तेनैव कार्यसंसिद्धिः, सुतरां समुदाहृता || ३७९ ।। शरदिन्दुसमाकारा, शेमुषी यस्य दीप्यते ।
तं नरं नैव बाधेत, तमिस्रा मोहरूपिणी ||३८० ॥
विवेकशांभवीशक्ति--चित्तसद्मनि संस्थिता ।
कन्दर्पदर्प संहर्त्ता, स नरो यस्य गीयते ।। ३८१ ॥ विवेकविकला द्वेषं, वहन्ति यत्र तत्र वै ।
विवेकेन विना तेषां, जातं जन्मनिरर्थकम् ॥ ३८२ ॥ विवेकिनोऽपिदुर्ध्याना -वजन्ति कुपथं नराः । कथं सुमार्गसंवारो, - बुद्धिः कर्मानुसारिणी ॥ ३८३ ||
For Private And Personal Use Only

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471