________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लुब्धस्य चेष्टितं चित्रं, क्रियाकाण्डस्तु मोहकः ।
वाग्वैशयं मनोहारि, वक्रता प्राणहारिणी ।। २४० ॥ केन सृष्ठमिदं रत्नं, लोभनामकमुत्कटम् । ___ संगतो यद्वशं जन्तु,-जेडरूपो भवत्यहो ॥२४१॥ लोभाग्नौ निपतन्त्येव, शलभा इव देहिनः । ___ मूढता हेतुरत्रैवा,-ऽन्यथा तत्संगतिः कथम् ॥ २४२ ।।
लुब्धा नरा न पश्यन्ति, कामिन इव मोहतः । __ इहैव दुःखिता यान्ति, नरकालयमुत्कटम् ।। २४३ ॥ वेदनाव्यथिता लुब्धाः, स्वार्थभ्रष्टाः पदे पदे । ___ केवलव्याधिवेदिन्यो-न दृष्टाः सरघाः किमु ॥ २४४॥ वित्तानां रक्षणे यत्न, कुर्वन्ति कृपणा जनाः ।
भुञ्जते ददते नैव, केवलं व्ययगामि यत् ॥ २४५ ॥ मुलभः सर्वदा लोके, समवायो विरोधिनाम् ।
ओतुमुषकसङ्घो हि, प्रतिवेश्म विलोक्यते ॥ २४६ ।। दुर्लभः सुतरां सारः, सज्जानां समागमः ।
कमलाऽऽवासितं वारि, क्वचिदेव समीक्ष्यते ॥ २४७ ॥ भव्या भवन्ति भूतानां, नितरां शान्तिदायकाः ।
सौम्या ग्रहा निषेवन्ते, क्रूरतां न कदाचन ॥ २४८ ॥
For Private And Personal Use Only