________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ܘܐ
Acharya Shri Kailassagarsuri Gyanmandir
निःसत्त्वानां समाजोऽपि जायते कार्यसाधकः । आमतन्तुप्रयोगेण, बध्यन्ते मत्तदन्तिनः ।। २३१ ॥ दुःखहेतुमयं स्नेहं रसं व्याधिप्रदायकम् । लोभमूलं महापापं, त्यक्त्वैतत्सुखभाग्भव ॥२३२॥ धनिनो धनलाभेने, गतमायुर्न जानते ।
क्रमेलकोष्टलुब्धो हि जम्बुको भ्रमणाद्यथा || २३३ || लोभिनः किं न कुर्वन्ति, हेयाऽहेयपराङ्मुखाः । द्रौणिश्चिच्छेद पञ्चानां, शिरांसि द्रौपदीभुवाम् || २३४ || लोभेन बुद्धिनाशः स्यान्निर्बुद्धेस्तुकुतो धनम् ।
अन्तरेणाऽक्षियोगेन, दर्पणः किं करिष्यति || २३५ || लुब्धा नराः स्वकार्याय, यतन्ते दुर्गुणालयाः ।
वायसाः किं न दृश्यन्ते, रटन्तः कटुकध्वनि ॥२३६॥ लोभाद्वैरी परो नास्ति, लोभएव महामयः ।
लोभ चेटक संक्रान्तः प्रत्यहं पीडयते नरः ।। २३७ ॥ नरो लोभधिया ग्रस्तो--जननीं जनकं तथा । भ्रातरं सुहृदञ्चापि वञ्चयत्यविचारतः || २३८ ॥ महाग्रहस्वरूपोऽयं, लोभी लोकप्रतापकः ||
आयो दूरस्थितः सद्यः प्रत्यक्षोऽन्यः कथं हहा || २३९ ||
For Private And Personal Use Only