________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
दुर्जनानां द्विकानां च किमप्यन्तरमस्तिनो । उभयेऽमेध्यवस्तूनां, पक्षकारानिरन्तरम् ॥ २२२ ॥ वदनं दुर्जनानां वै, दुर्गुणैर्वासितं सदा । तस्मात्सुगन्धभावस्तु, कुतो लभ्येत मानवैः || २२३ ॥ गुणिनां सङ्गतिः शस्या, सर्वसंपत्तिदायिनी । वाक्पतिसङ्गमात्रेण, के ग्रहा न फलप्रदाः ॥ २२४ ॥ गुणवन्तः सदा मान-मर्हन्ति बुधसंसदि ।
कीरोऽपि मृक्तिमात्रेण, पञ्जरस्थो विराजते ॥ २२५ ॥ गुणिनां गुणलेशोऽपि, महोपकारकारकः ।
तृणजन्यो यथा वह्नि - महापाकाय जायते ।। २२६ || गुणिभिः सह संपकों - जडानां जडतापहः ।
सहस्रकिरणस्पर्श -- स्तादृशः किं न दृश्यते ।। २२७|| गुणिनां गणना स्वल्पा, प्रत्यक्षैव विभाव्यते ।
खरसंख्याऽधिकालोके, क्वचिदेव गजाधिपाः || २२८ || असाराणां पदार्थानां भूयानाडम्बरो मतः ।
कांस्यपात्रसमो नादो -- हिरण्यभाजने किमु ॥ २२९॥ सना हि गर्जन्ति पराभिभववाञ्छया । ग्रामसिंहवदासन्ना- हस्तिनो मुखराः किमु || २३०||
For Private And Personal Use Only