________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०७
Acharya Shri Kailassagarsuri Gyanmandir
देशं दुर्जनो याति स देशः परिभूयते । उदये धूम्रकेतोर्हि, कुतो मङ्गलसन्ततिः ।। २१३ ।। दुर्जनो नम्रतां याति नैव नित्योपसेवितः । तैलाभ्यङ्गाद्युपायेन, श्वपुच्छः प्रकृतिं श्रितः ॥ २१४ ॥ दुर्जनः प्रथमं वन्यः, सज्जनस्तदनन्तरम् । अशुचिक्षालनं पूर्व, पश्चान्मुखविशोधनम् ।। २१५ ।। आडम्बरेण पूज्यन्ते, दुर्जना विगुणा अपि । वाराङ्गनाः सुनेपथ्य - प्रभावेण यथा जने ॥ २१६ ॥ दुर्जना दयया हीना- विराशिप्रियाः सदा ।
कानां स्वभावो हि परदुःख विधायकः || २१७॥
,
जानता जानता वाऽपि नैव दुर्जनसंगतिः ।
विधातव्या विचित्राणां, विपदां निधिरन्वहम् २१८ ॥ दुर्जनाऽनिल वेगेन, सज्जनामरपादपाः ।
नम्रीभूता अपि क्षोभं नैव यान्ति कदाचन ॥ २१९ ॥
दुर्जनाऽनलसंन्ताप-स्तावल्लोकभयङ्करः ।
सज्जनाम्बुधरोयावन्नैव दृष्टिपथं गतः ॥ २२० ॥
दुर्जनोलूकवर्गोऽयं, तमस्विन्यां प्रमोदभाक् । सज्जनोष्णांशुमाहात्म्या- त्कापि शीघ्रं निलीयते ।। २२१ ।।
For Private And Personal Use Only