________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१११
अभव्यानां समारम्भः, परकार्यविरोधकः ।
नीचस्थानं गते भौमे, कुतः स्यात्सुखवेदनम् ॥ २४९ ॥
निन्दनीयतमं लोके, कुत्सितानां विचेष्टनम् ।
यद्वशे पतितो देही, पङ्के गौरिव सीदति ।। २५० || दुष्टानां चरितं वक्रं, खला एव विजानते ।
भुजङ्गानां पदारोहं, विदन्ति भुजगाः सखे ।। २५१ ॥ खलसंसर्गतो ज्ञानं, समूलं हि विनश्यति ।
राहुच्छायागतो दृष्टो, निस्तेजाः शशभृन्न किम् ॥ २५२ ॥
मायाविनोविकाराय, प्रभवन्ति न शान्तये ।
आत्मगुप्ताप्रयोगेण, कूर्दन्ति कपयो यथा ॥ २५३ ॥ दुर्जनानां वचो मिष्टं जायते जीवितापहम् ।
"
शर्कराभक्षिणो नूनं, खराः प्राणपराङ्मुखाः ॥ २५४ ॥ असदर्थग्रहेणैव, सदर्थो नैव लभ्यते ।
विक्रीते काचखण्डेऽपि, रत्नमूल्यं सुदुर्लभम् ।। २५५ ।। साधवः स्वसदाचारं त्यजन्ति संकटेऽपिनो । पयोरावृतस्याऽपि तिग्मरश्मेः सदागतिः ।। २५६ ॥ परार्थसाधकाः सन्तः, पर्यटन्ति दयालवः । राहुणा ग्रस्यमानोऽपि, चन्द्रचरति निर्भयः ।। २५७ ॥
For Private And Personal Use Only