________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११.२
Acharya Shri Kailassagarsuri Gyanmandir
महान्तो नैव मुञ्चन्ति तुङ्गतां स्वकुलोचिताम् । व्यसनैर्वाधिताः सिंहा स्तृणं नादन्ति कर्हिचित् ॥ २५८ ॥
मानिनो मानमर्हन्ति, यत्र कुत्र गता अपि । दन्तिनःस्थानतो भ्रष्टा- बद्ध्यन्ते राजवेश्मनि ॥ २५९ ॥ मानही नास्तृणायन्ते, पराभूताः पदे पदे ।
दृश्यतां दास्यभावेन, दुर्गता देहिनो भुवि ॥ २६० ॥ विरमन्ति पराभूता, दुर्जना दुष्टकार्यतः ।
पिशाचा यन्त्रपाशेन, निबध्यन्ते न किं खलु ।। २६१ ॥ रिक्तभावा अपि क्लेशं जनयन्ति खला जने ।
>
घटीयन्त्रस्थिता घटयः, किमु तं खेदयन्ति नो ॥ २६२ ॥ कुरूपस्थायिनो यान्ति, गुणा गौरव हेतुताम् ।
वसन्तोदयमात्रात्किं कलकण्ठा न मोहकाः || २६३ ॥ शोभतेऽवसरे पुंसां, प्रभूतोऽपि गुणोदयः ।
जलदागमकाले ऽपि, नाऽतिवृष्टिः फलप्रदा ।। २६४ ॥ वचनं कालमासाद्य, शोभतेऽपि गुणोज्झितम् । प्रयाणावसरे वामे, खरशब्दः प्रशस्यते ॥ २६५ ॥ वागीशोऽपि ब्रुवन्याति, लघुतां कालमस्मरन् । शरमध्वानः किं न निन्दाभाजनमुच्यते ॥ २६६॥
For Private And Personal Use Only