________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूर्खाणां वादलेशोऽपि, जायते भयदायकः ।
शुष्कवंशसमद्भूतो-ज्वलनोऽरण्यदाहकः ॥ २६७ ॥ बलवानपि सत्पक्षो-जायते कार्यसाधकः ।
प्रभञ्जनेन संत्यक्तो-निर्बलो हि धनञ्जयः ॥ २६८ ॥ निर्वलोऽपिजनत्रातः-पूज्यते कार्यकर्मणि।
किटिकासंहतिः किं न, शस्यते कार्यसाधिका ॥२६९।। बहिःसारोपि नो मान्यो-हृदिस्याचेदसारता।
किं प्रीतिपूरकं सद्भि-बंदरीफलमीक्ष्यते ॥२७॥ अन्तःसारतया लोके, पूज्यन्ते गुणशालिनः।
नालिकेरफलान्यत्र, शुभाय न मतानि किम् ॥ २७१ ॥ संपदाढ्योऽपि नो मान-मर्हति दानमन्तरा ।
उच्चैः पदं पयोदाना-मम्बुधीनामधः स्थितिः ॥२७२।। किं करोति गुणान्योऽपि, विभवेऽसतिमानवः । ___ गुणहीनानि पुष्पाणि, वक्षोजी भूषयन्ति नो ॥२७३॥ गुणज्ञेषु गुणा यान्ति, गौरवं लोकविश्रुतम् ।
पिकंनादमपेक्षन्ते, पञ्चमध्वनिवेदिनः ॥ २७४ ॥ गुणा अपि समाश्रित्य, निर्गुणान्दोषकारिणः।
मिष्टापगाः समुद्रान्तः, पतिताः क्षारजीवनाः ॥ २७५ ॥
For Private And Personal Use Only