________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
खलसंसर्गतः सन्तो नैवं दुष्यन्ति कर्हिचित् पिचुमन्दप्रसङ्गेन, रसालादूषिताः किमु || २७६ || सतांसंगति मात्रेण भवेयुर्गुणिनोऽगुणाः । पयोदेनो तंवारि, सामुद्रं किं न तृप्तिदम् || २७७ || नादेन मोहितं विश्व-मकृत्यमपि सेवते ।
तृणभक्षीमृगः किं न तिष्ठति लुब्धकान्तिके ॥ २७८ ॥ द्विषतामुपकारेण, सज्जनत्वं प्रकाशते ।
महौषधिर्न किं दृष्टा, छेदकानां सुखप्रदा ॥ २७९ ॥ सज्जनानां सदा साम्यं, मतं सर्वत्र जन्तुषु ।
faarateera ft. सर्वत्र वर्त्तते समः ॥ २८० ॥
,
नाsकार्य क्रियते सद्भिः, संकटे पतितैरपि ।
निशाकरांशुभिः कश्चि तप्यते शीलवान् किमु || २८१ ॥ अन्धेन नीयमानोऽन्धो - नैवाप्नोति निजोचितम् । मूर्खमार्गानुसारी किं, प्रयाति परमं पदम् ।। २८२ ।। सद्गुरुनावमासाद्य, तरन्ति विबुधा जनाः ।
न हि जन्मप्रभावेण, केषाञ्चिदुद्धृतिः स्मृता ॥ २८३ ॥ गुरूणां वचनं शस्यं, सर्वपापप्रणाशनम् ।
तदेव भेषजं शान्ति-प्रदं सद्वैयोजितम् ॥ २८४ ॥
For Private And Personal Use Only