________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मज्ञाहीननरे शास्त्र, नकिश्चिदुपकारकृत् ।
लोचनाभ्यां विहीनस्य, दर्पणः श्रमवेदना ।। २८५ ॥ कोमलं हृदयं यस्य, कठोरं बाह्य चेष्टनम् ।
सनरो जनमान्येषु, नालिकेरफलायते ॥ २८६ ।। मागेव कातराः कार्य, नारभन्ते यथोचितम् । ___ हरिणाः कापि नो दृष्टा-गृहारम्भश्रमोयताः ॥२८७ ॥ न मेधा वञ्चकानांस्या-त्परोपकृतिसाधिका।
धूर्तेन पङ्कमार्गेण, क्रोष्टुना निहतो गजः ॥ २८८ ॥ योषितः किं न कुर्वन्ति, मायावासितचेतसः ।
दृश्यतां संगमात्रेण, मुनयोऽपि प्रतारिताः ॥ २८९ ॥ कूटागारमहोयोषि-त्पार्यते केन देहिना ।
साहसं षड्गुणं प्रोक्तं, बुद्धिस्तस्याश्चतुर्गुणा ॥ २९० ॥ संपनशीलमाहात्म्या, सा नारी नररत्ननः ।
बन्दनीया सतीनां या, शिरोरत्नमयी सदा ॥ २९१ ॥ विदुषां गोपनं किश्चि-त्रैवाऽस्ति भुवनत्रये ।
विभावसुर्निजं तेजः किं गोपयति कहिचित् ।। २९२ ॥ कामिनीनां प्रसंगो हि, दुर्दशा जनयत्यहो । तस्मात्तं दूरतस्त्यक्त्या, शिववर्मपरो भव ॥ २९३ ॥
For Private And Personal Use Only