________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१६
पक्षपातरतोदेवो न दृष्टो न श्रुतोऽपि वा । तथाऽपि देवतोद्देशं, विधायोद्धतसंगतिः ।। २९४ ॥ कर्मणा जायते जन्तुः कर्मणा प्रविलीयते । । तस्मात्कर्मप्रधानेयं, विधातुः सृष्टिरुच्यते ।। २९५ ॥ नीतिमात्रमपिक्षोभ्यं वचनं किमु जल्पितम् । सर्वधर्ममयं लोके, पूजनीयमनर्थदम् ॥ २९६ ॥ अजडो जडनेव विन्दति, सुसती निन्दति कामिनीं कुशीलाम् । सुजनोऽतितरां कुमार्गगं, भिषजां निन्यतमो निरामयः २९७ करुणा जनमानसंस्थिता, सुखदा साधुजनेन संमता ।
कलुषं हृदयं विनिर्मितं, परलोकेऽप्यरतिपदं मतम् ॥ २९८ ॥ विवादेषु रताः केचित्पर्यन्ति जनान्तिके ।
तत्त्वबुद्धिरताः स्तोका दृश्यन्ते विगतक्लमाः || २९९ ॥ सारमात्रमपिग्राह्यं वचनं वालभाषितम् ।
गुणग्राह्याः कुतो लुब्धा - विशेषवक्तृमानवे ।। ३०० ॥ गुणएव सदा ग्राद्यो यत्र कुत्र स्थितोऽपि वा । गुणेन शस्यते देही, न तु जातिप्रभावतः ।। ३०१ ॥ गुणिनां सङ्गमात्रेण, जडोऽपि बुद्धिमान् भवेत् । गुणहीनो धनुर्दण्डो, निष्फलः साध्यसाधने || ३०२ ।।
For Private And Personal Use Only