________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
?
$ ܀
Acharya Shri Kailassagarsuri Gyanmandir
सर्वस्वदायिनो नित्यं निर्ममत्वविराजिताः ।
अलङ्कारमया लोके, पूज्यन्ते गुणिसंगमे ॥ ३०३ ॥ गुणिनां सङ्गतिः श्रेष्ठा, परलोकसुखप्रदा ।
sease विदुषां मान्या, कोऽजडस्तां परित्यजेत् ॥ ३०४॥ गुणेषु मित्रता कार्या, सर्वत्र विजयप्रदा ।
तस्याः सङ्गति मात्रेण, जनो याति परं पदम् ॥ ३०५ ॥ गुणानां कीर्त्तनं श्रेष्ठं विशुद्धबुद्धिदायिनाम् ।
"
विरामो दुर्गुणेभ्यस्तु जनानां तारकः स्मृतः || ३०६॥ निर्भया निःस्पृहाकारा - येषां बुद्धिः सुनिर्मला । ते नरा गुणवन्मान्या -- जनानन्दप्रदायिनः ॥ ३०७ ॥ कीर्त्तनं देवदेवस्य गुणानामात्मसिद्धये ।
आत्मसिद्धिमं कार्य, विद्यते नाऽन्यदुत्तमम् ॥ ३०८ ॥ प्रायेण हि वियुज्यन्ते, सिद्धे स्वार्थेऽखिलाजनाः । कर्मग्रन्थौ क्षयं याते, न कोऽप्यात्माऽतिष्ठति ॥ ३०९ ॥ मुकुरो मलनिर्मुक्तः, प्रतिबिम्ब प्रकाशकः । तस्मान्निर्मलभावेन, वर्त्तितव्यं सदा बुधैः || ३१० ॥
यदि वन्ध्या सुतं मृते, क्षारभूमिश्च पङ्कजम् । तदा दुर्जनसंसर्गो-जनयेच्छोभनक्रियाम् ॥ ३११ ॥
For Private And Personal Use Only