Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ जान्युआरी-2007 महीसमुद्रगणिरचितं 'भक्तामर पादपूर्तिमयं आदिजिनस्तोत्रम् भक्तामरप्रभुशिरोमणिमौलिमाला मन्दारसारमकरन्दकदम्बकायौँ । नाभेयदेव ! भवतो भवदीयपादा वालम्बनं भवजले पततां जनानाम् ॥१॥ यस्य स्तुतिर्मतिमतामपि गोचरः स्या नो योगिनां गुणमहागरिमाऽमराद्रेः ॥ शालीनताऽतिमहतीयमहो यदेषा स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ त्वामेव देवमपसन्तमसं श्रयन्ते सन्तः कषायकलुषानपरानुपेक्ष्य । काचं विमुच्य मणिमात्महिताय विज्ञं मन्य: क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ शक्नोति नो तव जिन ! स्तवनाय धीर __ धीमान् पुमान् क इह मन्दमतिस्तु मादृग् ॥ पद्भ्यां हि गन्तुमगशृङ्गमिवाङ्ग ! पङ्गुः को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ देव ! त्वदेकशरणं करुणागुणाब्धे ! मामीश ! मोचय महारिपुमोहरुद्धम् ॥ कष्टे कलिव्यसनत: सविता समर्थो नाभ्येति कि निजशिशोः परिपालनार्थम् ॥५॥ ग्रन्थि विभिद्य जिन ! मोहमयं बभूव त्वदर्शने रुचिरसौ शिवसौख्यहेतुः ॥ मूलेषु यत् परिणमत्युदकं घनस्य तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23