________________
जान्युआरी-2007
महीसमुद्रगणिरचितं 'भक्तामर पादपूर्तिमयं
आदिजिनस्तोत्रम् भक्तामरप्रभुशिरोमणिमौलिमाला
मन्दारसारमकरन्दकदम्बकायौँ । नाभेयदेव ! भवतो भवदीयपादा
वालम्बनं भवजले पततां जनानाम् ॥१॥ यस्य स्तुतिर्मतिमतामपि गोचरः स्या
नो योगिनां गुणमहागरिमाऽमराद्रेः ॥ शालीनताऽतिमहतीयमहो यदेषा
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ त्वामेव देवमपसन्तमसं श्रयन्ते
सन्तः कषायकलुषानपरानुपेक्ष्य । काचं विमुच्य मणिमात्महिताय विज्ञं
मन्य: क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ शक्नोति नो तव जिन ! स्तवनाय धीर
__ धीमान् पुमान् क इह मन्दमतिस्तु मादृग् ॥ पद्भ्यां हि गन्तुमगशृङ्गमिवाङ्ग ! पङ्गुः
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ देव ! त्वदेकशरणं करुणागुणाब्धे !
मामीश ! मोचय महारिपुमोहरुद्धम् ॥ कष्टे कलिव्यसनत: सविता समर्थो
नाभ्येति कि निजशिशोः परिपालनार्थम् ॥५॥ ग्रन्थि विभिद्य जिन ! मोहमयं बभूव
त्वदर्शने रुचिरसौ शिवसौख्यहेतुः ॥ मूलेषु यत् परिणमत्युदकं घनस्य
तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org