SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ 20 अनुसन्धान-३८ बाह्यान्तरारिबलमप्यखिलं विशालं त्वद्ध्यानसन्निधिविधायिधियामधीश ! ॥ भूरिप्रभाव ! भजते विशरारुभावं सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ त्वत्पादपङ्कजयुगप्रणिधानयोगा न्नाभेय ! नाशमुपयाति महान्त्यघानि ॥ वातोद्भुतः किल कियच्चिरमब्जपत्रे मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ।।८।। लक्ष्मीविलासवसति विदुरा विदन्तु नामैव ते स्मरणतोऽस्य यदाप्यते श्रीः ।। मिथ्येन्दुमण्डलमथातपवारणं वा पद्माकरेषु जलजानि विकाशभाञ्जि ।।९।। त्वांमष्टकर्ममलमुक्तमुपास्य नष्ट कर्माष्टको हि भजतीति भजे भवन्तम् ॥ किं सर्वतोमुखसुखैषिभिरिष्यते स भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ श्रोतुं सुराः समुपयन्ति गिरं गुरो ! ते देवेश ! दिव्यमपि गीतरसं निरस्य । स्वाधीनसौधरससारसराः पिपासुः क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ उत्पाद्यते कथमधीश ! तवात्मतत्त्व मर्वाग्दृशामनुपमानमतीन्द्रियं च ॥ आलोकितं क्वचिदपि श्रुतपूर्वकं वा यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ वागौचितीं व्रजति सा किमु कोविदानां यत् ते त्वदीययशसामतिनिर्मलानाम् ।। नेतस् ! तदप्युपमयन्ति शशाङ्कबिम्बं यद् वासरे भवति पाण्डुपलाशकल्पम् ||१३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229352
Book TitlePadmurtimayam Stotra panchakam
Original Sutra AuthorN/A
AuthorAmrut Patel
PublisherZZ_Anusandhan
Publication Year
Total Pages23
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size453 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy