Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
जान्युआरी-2007
25
त्वत्राममन्त्रमिव नाथ ! पवित्रपात्र -
मत्र श्रियामसममुक्तिकरं स्मरन्तः । बाह्यान्तरद्विविधबन्धभृतोऽपि बाढं
सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२।। तं सर्वतोमुखमुपैति सुखं समग्र
श्रीभिः समं शमितदुर्मतिदुःस्थताभिः ॥ मन्त्रं महान्तमिव तत्र नियन्त्रितात्मा
यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ यस्ते स्तुति प्रथमतीर्थपते । प्रथीयः
पुण्योदयां प्रथयति प्रथमानभावः ॥ श्रीसूरसुन्दरमहामहसा लसन्तं
तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ इत्थं श्रीजिननाभिनन्दनविभो(भु)भक्त्यात्तभक्तामरस्तोत्रान्त्यांहिसमस्यया स्तुतपदः, स्तुत्याल्पमत्या मया ॥ तत्त्वातत्त्वपथप्रकाशनरवेर्माहात्म्यमालालसललक्ष्मीसागरसार्वसोमजयदः स्तादाप्तदिव्यो रयः(रथः) ॥४५!!
इति श्रीऋषभदेवस्तोत्रं श्रीपण्डितमहीसमुद्रगणिपादविरचितम् छ।।
श्रीज्ञानसागरसूरि विनिर्मितं संसारदावा० पादपूर्तिमयं
___ महावीरस्तोत्रम् । कल्याणवल्लीवनवारिवाहं
श्रेयःपुरीसत्पथसार्थवाहम् || हर्षप्रकर्षेण नुवामि वीरं
संसारदावानलदाहनीरम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23