Book Title: Padmurtimayam Stotra panchakam
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ जान्युआरी-2007 लोकस्थितिप्रथितपातकपार्श्ववर्ती(त्ति-) निःशेषकर्मपटलापगमात् तवात्मा || धत्ते महोऽधिकमहोभ्रमदभ्रमुक्तं बिम्बं रवेरिव पयोधरपार्श्ववत्ति ॥२८॥ सिंहासने स्थितवतस्तव हेमरत्न रम्ये स्फुरत्युरु विशेषवतीव दीप्तिः ॥ प्रातः प्रभा प्रचुरधातुरसैरुपेता | __तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ नेतविभूषति भृशं भवदंसदेशं हेमोपमं मरकतद्युतिकाऽलकाऽऽली ।। कल्पद्रुकाननततिः परितः प्रकाम मुच्चस्तटं सुरगिरेरिव शातकौम्भम् ।।३०॥ दोषत्रयीविजयिनं त्रिसुपर्वसाल संस्थं त्रिकालविदमीश ! भवन्तमाशु ॥ रत्नत्रयीगुरुगुणा नृपतित्रिशक्तिः प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ अत्रोचितः कविकृतोऽस्त्युपमोपमेय-- भावो न वेदमवधारयितुं धरेयम् ॥ यत्रादधासि चरणौ तदधः सुवर्ण __पद्मानि तत्र बिबुधाः परिकल्पयन्ति ॥३२॥ तीर्थाधिपत्यपदवी भुवनोपकार-- सारा यथा तव तथा न भवेत् परेषाम् ।। सौख्यावहः सवितुरस्त्युदयस्तु यादृक् तादृक् कुतो ग्रहगणस्य विकाशितोऽपि ॥३३॥ दुर्वार वैरि-करि-केसरि-वारि-मारि चौरोरगप्रभृतिसम्भवमाभवं ते । निःशेषभीतिहरणौ चरणौ शरण्यौ दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23