________________
जान्युआरी-2007
लोकस्थितिप्रथितपातकपार्श्ववर्ती(त्ति-)
निःशेषकर्मपटलापगमात् तवात्मा || धत्ते महोऽधिकमहोभ्रमदभ्रमुक्तं
बिम्बं रवेरिव पयोधरपार्श्ववत्ति ॥२८॥ सिंहासने स्थितवतस्तव हेमरत्न
रम्ये स्फुरत्युरु विशेषवतीव दीप्तिः ॥ प्रातः प्रभा प्रचुरधातुरसैरुपेता |
__तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ नेतविभूषति भृशं भवदंसदेशं
हेमोपमं मरकतद्युतिकाऽलकाऽऽली ।। कल्पद्रुकाननततिः परितः प्रकाम
मुच्चस्तटं सुरगिरेरिव शातकौम्भम् ।।३०॥ दोषत्रयीविजयिनं त्रिसुपर्वसाल
संस्थं त्रिकालविदमीश ! भवन्तमाशु ॥ रत्नत्रयीगुरुगुणा नृपतित्रिशक्तिः
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ अत्रोचितः कविकृतोऽस्त्युपमोपमेय--
भावो न वेदमवधारयितुं धरेयम् ॥ यत्रादधासि चरणौ तदधः सुवर्ण
__पद्मानि तत्र बिबुधाः परिकल्पयन्ति ॥३२॥ तीर्थाधिपत्यपदवी भुवनोपकार--
सारा यथा तव तथा न भवेत् परेषाम् ।। सौख्यावहः सवितुरस्त्युदयस्तु यादृक्
तादृक् कुतो ग्रहगणस्य विकाशितोऽपि ॥३३॥ दुर्वार वैरि-करि-केसरि-वारि-मारि
चौरोरगप्रभृतिसम्भवमाभवं ते । निःशेषभीतिहरणौ चरणौ शरण्यौ
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org